जातो दानपतिः पुत्रस्त्वया शूरस्तथाऽपरः। सत्यधर्मरतश्चान्यो यज्वा चापि तथाऽपरः
तदागच्छ वरारोहे तारितस्ते पिता सुतैः । चत्वारश्चैव राजानस्तथा चाहं सुमध्यमे
गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् । पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्। उपगम्याश्रमपदं गङ्गायामुनसङ्गमे
गृहीतमाल्यदामां तां रथमारोप्य माधवीम् । पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम्
नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम् । शैलद्रुमवनौकानामासीत्तत्र समागमः
नानापुरुषदेश्यानामीश्वरैश्च समाकुलम् । ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम्
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी । वरानुत्क्रम्य सर्वास्तान्वरं वृतवती वनम्
अवतीर्य रथात्कन्या नमस्कृत्य च बन्धुषु। उपगम्य वनं पुण्यं तपस्तेपे ययातिजा
उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा । आत्मनो लघुतां कृत्वा बभूव मृगचारिणी
वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च। चरन्ती श्लक्ष्णशष्पाणि तिक्तानि मधुराणि च
स्रवन्तीनां च पुण्यानां सुरसानि सुचीनि च। पिबन्ती वारिमुख्यानि शीतानि विमलानि च
वनेषु मृगराजेषु व्याघ्रविप्रोषितेषु च । दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी । चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम्
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः। बहुवर्षसहस्रायुर्युयुजे कालधर्मणा
पुरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ । ताभ्भां प्रतिष्ठितो लोके परलोके च नाहुषः
महीपते नरपतिर्ययातिः स्वर्गमास्थितः। महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः
बहुवर्षसहस्राख्ये काले बहुगुणे गते। राजर्षिषु निषण्णेषु महीयःसु महर्धिषु
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा। ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः । ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन्
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् । कोऽन्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः
कर्मणा केनसिद्धोऽयं क्व वाऽनेन तपश्चितम्। कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत
एवं विचास्यन्तस्ते राजानं स्वर्गवासिनः । दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः । पृष्टा आसनपालाश्च न जानीमेत्यथाऽब्रुवन्
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् । स मुहूर्तादथ नृपो हतौजाश्चाभवत्तदा
अथ प्रचलितः स्थानादासनाच्च परिच्युतः। कम्पितेनेव मनसा धर्षितः शेकवाह्निना
म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः । विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः
अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः । शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम्
किं मया मनसा ध्यातमशुभं धर्मदूषणम् । येनाहं चलितः स्थानादिति राजा व्यचिन्तयत्
ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा । अपश्यन्त निरालम्बं तं ययातिं परिच्युतम्