मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम। पौरजानपदार्थं तु ममार्थो नात्मभोगतः
कामतो हि धनं राजा पारक्यं यः प्रयच्छति। न स धर्मेण धर्मात्मन्युज्यते यशसा न च
सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम । कुमारीं देवगर्भाभामेकपुत्रभवाय मे
तथा तु बहुधा कन्यामुक्तवन्तं नराधिपम् । उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत्
उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् । रेमे स तां समासाद्य कृतपुण्य इव श्रियम्
कन्दरेषु च शैलानां नदीनां निर्झरेषु च। उद्यानेषु विचित्रेषु वनेषूपवनेषु च
हर्म्येषु रमणीयेषु प्रासादशिखरेषु च। वातायनविमानेषु तथा गर्भगृहेषु च
ततोऽस्य समये यज्ञे पुत्रो बालरविप्रभः । शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः
उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च। कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम्
गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत्। दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज
गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् । चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि
सुपर्णस्त्वब्रवीदेनं गालवं वदतां वरः। प्रयत्नस्ते न कर्तव्यो नैष संपत्स्यते तव
पुरा हि कान्यकुब्जे वै गाधेः सत्यवतीं सुताम्। भार्यार्थे वरयत्कन्यामृचीकस्तेन भाषितः
एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् । भगवन्दीयतां मह्यं सहस्रमिति गालव
ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः। अश्वतीर्थे हयाँल्लब्ध्वा दत्तवान्पार्थिवाय वै
इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु। तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्ते तैः पार्थिवैस्तदा
अपराण्यपि चत्वारि शतानि द्विजसत्तम । नीयमानानि संतारे हृतान्यासन्नितस्ततः
एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् । इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय
विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह। ततोऽसि गतसंमोहः कृतकृत्यो द्विजोत्तम
गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः । आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत्
अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै । शतद्वयेन कन्येयं भवता प्रतिगृह्यताम्
अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः । चतुर्थं जनयत्वेकं भवानपि नरोत्तमम्
पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते। भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम्
विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा। कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः
किमियं पूर्वमेवेह न दत्ता मम गालव। पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः
प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै । अश्वाश्चाश्रममासाद्य चरन्तु मम सर्वशः
स तया रममाणोऽथ विश्वामित्रो महाद्युतिः । आत्मजं जनयामास माधवीपुत्रमष्टकम्
जातमात्रं सुतं तं च विश्वामित्रो महामुनिः । संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत्
अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् । निर्यात्य कन्यां शिष्याय कौशिकोपि वनं ययौ
गालवोपि सुपर्णेन सह निर्यात्य दक्षिणाम्। मनसाऽतिप्रतीतेन कन्यामिदमुवाच ह