पुत्रं ययातेः प्रबूहि पूरुं धर्मभृतां वरम्। आनुपूर्व्येण ये चान्ये पूरोर्वंशविवर्धनाः
विस्तरेण पुनर्ब्रूहि दौष्यन्तेर्जनमेजयात्। संबभूव यथा राजा भरतो द्विजसत्तम
पूरुर्नृपतिशार्दूलो यथैवास्य पिता नृप। धर्मनित्यः स्थितो राज्ये शक्रतुल्यपराक्रमः
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः। पूरोः पौष्ट्यामजायन्त प्रवीरो वंशकृत्ततः
मनस्युरभवत्तस्माच्छूरसेनीसुतः प्रभुः। पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः
शक्तः संहननो वाग्मी सौवीरीतनयास्त्रयः। मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः
अन्वग्भानुप्रभृतयो मिश्रकेश्यां मनस्विनः। रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः
यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः। सर्वे सर्वास्त्रविद्वासः सर्वे धर्मपरायणाः
ऋचेयुरथ कक्षेयुः कृकणेयुश्च वीर्यवान्। स्थण्डिलेयुर्वनेयुश्च जलेयुश्च महायशाः
तेजेयुर्बलावान्धीमान्सत्येयुश्चन्द्रविक्रमः। धर्मेयुः सन्नतेयुश्च दशमो देवविक्रमः
अनाधृष्टिरभूत्तेषां विद्वान्भुवि तथैकराट्। ऋचेयुरथ विक्रान्तो देवानामिव वासवः
अनाधृष्टिसुतस्त्वासीद्राजसूयाश्वमेधकृत्। मतिनार इति ख्यातो राजा परमधार्मिकः
मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः। तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन्। आजहार यशो दीप्तं जिगाय च वसुंधराम्
ईलिनं तु सुतं तंसुर्जनयामास वीर्यवान्। सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः
रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः। ईलिनो जनयामास दुष्यन्तप्रभृतीन्नृपान्
दुष्यन्तं शूरभीमौ च प्रवसुं वसुमेव च। तेषां श्रेष्ठोऽभवद्राजा दुष्यन्तो दुर्जयो युधि
दुष्यन्ताल्लक्षणायां तु जज्ञे वै जनमेजयः। शकुन्तलायां भरतो दौष्यन्तिरभवत्सुतः
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः
भगवन्विस्तरेणेह भरतस्य महात्मनः। जन्म कर्म च सुश्रूषोस्तन्मे शंसितुमर्हसि
पौरवाणां वंशकरो दुष्यन्तो नाम वीर्यवान्। पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम
चतुर्भागं भुवः कृत्स्नं यो भुङ्क्ते मनुजेश्वरः। समुद्रावरणांश्चापि देशान्स समितिंजयः
आम्लेच्छावधिकान्सर्वान्स भुङ्क्ते रिपुमर्दनः। रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान्
न वर्णसङ्करकरो न कृष्याकरकृज्जनः। न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति
धर्मे रतिं सेवमाना धर्मार्थावभिपेदिरे। तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे
नासीच्चोरभयं तात न क्षुधाभयमण्वपि। नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे
स्वधर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः। तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः
कालवर्षी च पर्जन्यः सस्यानि रसवन्ति च। सर्वरत्नसमृद्धा च मही पशुमती तथा
स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते। स चाद्भुतमहावीर्यो वज्रसंहननो युवा
उद्यम्य मन्दरं दोर्भ्यां वहेत्सवनकाननम्। चतुष्पथगदायुद्धे सर्वप्रहरणेषु च