श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज। काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैव द्विजसत्तम
एतच्च मे बहुमतं यदुत्सृज्य नराधिपान्। मामेवमुपयातोऽसि भावि चैतदसंशयम्
स एव विभवोऽसमाकमश्वानामपि गालव। अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम्
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः। विधिपूर्वां च तां राजा कन्यां प्रतिगृहीतवान्
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः। स्वाहायां च यथा वह्निर्यथा शाच्यां च वासवः
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः। वरुणश्च यथा गौर्यां यथा चर्ध्यां धनेश्वरः
यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः । यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया। च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा। यथा भृगुः पुलोमायामदित्यां कश्यपो यथा
रेणुकायां यथार्चीको हैमवत्यां च कौशिकः। बृहस्पतिश्च तारायां शुक्रश्च शतपर्वणा
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः। ऋचीकः सत्यवत्यां च सरस्वस्यां यथा मनुः
शकुन्तलायां दुष्यन्तो धृत्यां धर्मश्च शाश्वतः। दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः
जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया। मेनकायां यथोर्णायुस्तुम्बुरुश्चैव रम्भया
वासुकिः शतशीर्षायां कुमार्यां च धनञ्जयः। वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः
तथा तु रममाणस्य दिवोदासस्य भूपतेः । माधवी जनयामास पुत्रमेकं प्रतर्दनम्
अथाजगाम भगवान्दिवोदासं स गालवः । समये समनुप्राप्ते वचनं चेदमब्रवीत्
निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः । यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते
दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम्। कान्यां निर्यातयामास स्थितः सत्ये महीपतिः
तथैव तां श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी । माधवी गालवं विप्रमभ्ययात्सत्यसङ्गरा
गालवो विमृशन्नेव स्वकार्यगतमानसः । जगाम भोजनगरं द्रष्टुमौशीनरं नृपम्
तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम्। इय कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ
अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च। सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप
शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम्। एकतःश्यामकर्णानां देयं मह्यं चतुःशतम्
गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे। यदि शक्यं महाराज क्रियतामविचारितम्
अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव । पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय
न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः। न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः
एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् । उशीनरः प्रतिवचो ददौ तस्य नराधिपः
श्रुतवानस्मि ते वाक्यं यथा वदसि गालव । विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम
शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम। इतरेषां सहस्राणि सुबहूनि चरन्ति मे
अहमप्येकमेवास्यां जनयिष्यामि गालव । पुत्रवद्भिर्गतं मार्गं गमिष्यामि परैरहम्