स तस्य वचनं श्रुत्वा ब्राह्मणः शंसितव्रतः ।' प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा। पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः। उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम्
गते पतगराजे तु गालवः सह कन्यया। चिन्तयानः क्षमंदाने राजानं शुल्कतोऽगमत्
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्। अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम्
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् । प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम्
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् । कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी
इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम् । शुल्कं ते कीर्तियिष्यामि तच्छ्रुत्वा संप्रधार्यताम्
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः। दिवोदास इति ख्यातो भैमसेनिर्नराधिपः
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः । धार्मिकः संयमे युक्तः सत्ये चैव जनेश्वरः
तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः। गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत्
श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज। काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैव द्विजसत्तम
एतच्च मे बहुमतं यदुत्सृज्य नराधिपान्। मामेवमुपयातोऽसि भावि चैतदसंशयम्
स एव विभवोऽसमाकमश्वानामपि गालव। अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम्
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः। विधिपूर्वां च तां राजा कन्यां प्रतिगृहीतवान्
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः। स्वाहायां च यथा वह्निर्यथा शाच्यां च वासवः
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः। वरुणश्च यथा गौर्यां यथा चर्ध्यां धनेश्वरः
यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः । यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया। च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा। यथा भृगुः पुलोमायामदित्यां कश्यपो यथा
रेणुकायां यथार्चीको हैमवत्यां च कौशिकः। बृहस्पतिश्च तारायां शुक्रश्च शतपर्वणा
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः। ऋचीकः सत्यवत्यां च सरस्वस्यां यथा मनुः
शकुन्तलायां दुष्यन्तो धृत्यां धर्मश्च शाश्वतः। दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः
जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया। मेनकायां यथोर्णायुस्तुम्बुरुश्चैव रम्भया
वासुकिः शतशीर्षायां कुमार्यां च धनञ्जयः। वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः
तथा तु रममाणस्य दिवोदासस्य भूपतेः । माधवी जनयामास पुत्रमेकं प्रतर्दनम्
अथाजगाम भगवान्दिवोदासं स गालवः । समये समनुप्राप्ते वचनं चेदमब्रवीत्
निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः । यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते
दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम्। कान्यां निर्यातयामास स्थितः सत्ये महीपतिः
तथैव तां श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी । माधवी गालवं विप्रमभ्ययात्सत्यसङ्गरा
गालवो विमृशन्नेव स्वकार्यगतमानसः । जगाम भोजनगरं द्रष्टुमौशीनरं नृपम्