गुर्वर्थो दीयतामेव यदि गालव मन्यसे । इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः
सोऽयं शोकेन महता तप्यमानो द्विजर्षभः । अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः
प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः । कृत्वाऽऽपवर्गं गुरवे चरिष्यति महत्तपः
तपसः संविभागेन भवन्तमपि योक्ष्यते। स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति
यावन्ति रोमाणि हये भवन्तीह नरेश्वर । तावन्तो वाजिनो लोकान्प्राप्नुवन्ति महीपते
पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् । शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम्
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् । विमृश्यावहितो राजा निश्चित्य च पुनः पुनः
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः । ययातिः सर्वकाशीश इदं वचनमब्रवीत्
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् । निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम्
अतीत्य च नृपानन्यानादित्यकुलसंभवान् । मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च
अद्य मे सफलं जन्म तारितं चाद्य मे कलम् । अद्यायं तारितो देशो मम तार्क्ष्य त्वयाऽनघ
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा । न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग। न चाशामस्य विपर्षेर्वितथीकर्तुमुत्सहे
पुत्रीं दास्यामि यत्कार्यमियं संपादयिष्यति। अभिगम्य हताशो हि निवृत्तो दहते कुलम्
नातः परं वैनतेय किंचित्पापिष्ठमुच्यते । प्रथाशानाशनं लोके देहि नास्तीति वा वचः
हताशो ह्यकृतार्थः सन्हतः संभावितो नरः । हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम्
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम। `माधवी नाम तार्क्ष्येयं सर्वधर्मप्रदायिनी
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी। सदा देवमनुष्यणामसुराणां च गालव । काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम्
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रवम्। किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते
स भवाप्रतिगृह्णातु ममैतां माधवीं सुताम्। अहं दौहित्रवान्त्स्यां वै वर एष मम प्रभो
स तस्य वचनं श्रुत्वा ब्राह्मणः शंसितव्रतः ।' प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा। पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः। उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम्
गते पतगराजे तु गालवः सह कन्यया। चिन्तयानः क्षमंदाने राजानं शुल्कतोऽगमत्
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्। अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम्
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् । प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम्
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् । कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी
इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम् । शुल्कं ते कीर्तियिष्यामि तच्छ्रुत्वा संप्रधार्यताम्
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः। दिवोदास इति ख्यातो भैमसेनिर्नराधिपः
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः । धार्मिकः संयमे युक्तः सत्ये चैव जनेश्वरः
तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः। गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत्