अनुज्ञातस्तु शाण्डिल्या यथागतमुपागमत् । नैव चासादयामास तथारूपांस्तुरङ्गमान्
विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितः । उवाच वदतां श्रेष्ठो वैनतेयस्य सन्निधौ
यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज। तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान्
प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् । यथासंसिध्यते विप्र स मार्गस्तु निशाम्यताम्
सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् । प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान्
तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव । नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयाऽऽसितुम्
अथाह गालवं दीनं सुपर्णः पततां वरः। निर्मितं वह्निना भूमौ वायुना शोधितं तथा। यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते
धत्ते धारयते चेदमतस्मात्कारणाद्धनम् । तदेतत्रिषु लोकेषु धनं तिष्ठति शाश्वतम्
नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा। मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम्
अजैकपादहिर्बुध्न्यौ रक्ष्येते धनदेन च। एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ । ऋते च धनमश्वानां नावाप्तिर्विद्यते तव
स त्वं याचात्र राजानं कंचिद्राजर्षिवंशजम् । अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ
अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा । अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि
ययातिर्नाम राजर्षिर्नोहुषः सत्यविक्रमः । स दास्यति मया चोक्तो भवता चार्थितः स्वयम्
विभवश्चास्य सुमहानासीद्धनपतेरिव । एवं गुरुधनं विद्वन्दानेनैव विशोधय
तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम्। प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ
प्रतिगृह्य च सत्कारैरर्घ्यपाद्यादिकं वरम् । पृष्टश्चागमने हेतुमुवाच विनतासुतः
अयं मे नाहुष सखा गालवस्तपसो निधिः । विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप
सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः। तमाह भगवान्किं ते ददानि गुरुदक्षिणाम्
असकृत्तेन चोक्तेन किंचिदागतमन्युना । अयमुक्तः प्रयच्छेति जानता विभवं लघु
एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् । अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम्
गुर्वर्थो दीयतामेव यदि गालव मन्यसे । इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः
सोऽयं शोकेन महता तप्यमानो द्विजर्षभः । अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः
प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः । कृत्वाऽऽपवर्गं गुरवे चरिष्यति महत्तपः
तपसः संविभागेन भवन्तमपि योक्ष्यते। स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति
यावन्ति रोमाणि हये भवन्तीह नरेश्वर । तावन्तो वाजिनो लोकान्प्राप्नुवन्ति महीपते
पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् । शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम्
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् । विमृश्यावहितो राजा निश्चित्य च पुनः पुनः
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः । ययातिः सर्वकाशीश इदं वचनमब्रवीत्
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् । निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम्
अतीत्य च नृपानन्यानादित्यकुलसंभवान् । मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च