शरीरं तु न पश्यामि तव चैवात्मनश्च ह। पदेपदे तु पश्यामि शरीरादग्निमुत्थितम्
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः। तन्नियच्छ महावेगं गमने विनतात्मज
न मे प्रयोजनं किंचिद्गमने पन्नगाशन । संनिवर्त महाभाग न वेगं विषहामि ते
गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् । एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम्
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज। ततोऽयं जीवितत्यागे दृष्टो मार्गोमयाऽऽत्मनः
नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् । न चार्थेनापि महता शक्यमेतद्व्यपोहितुम्
एवं बहु च दीनं च ब्रुवाणं गालवं तदा। प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः
नातिप्रज्ञोऽसि विप्रर्षे योत्मानं त्युक्तुमिच्छसि । न चापि कृत्रिमः कालः कालो हि परमेश्वरः
किमहं पूर्वमेवेह भवता नाभिचोदितः। उपायोऽत्र महानस्ति येनैतदुपपद्यते
तदेष ऋषभो नाम पर्वतः सागरान्तिके। अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव
ऋषभस्य ततः शृङ्गं निपत्य द्विजपक्षिणौ। शाण्डिलीं ब्राह्मणीं तत्र ददृशो तपोन्विताम्
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम्। तया च स्वागतेनोक्तौ विष्टरे सन्निषीदतुः
सिद्धमन्नं तया दत्तं बलिमन्त्रोपबृंहितम् । भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावनुमोहितौ
मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया । ` तां दृष्ट्वा चारुसर्वाङ्गी तापसीं ब्रह्मचारिणीम्
ग्रहीतुं हि मनश्चक्रे रूपात्साक्षादिव श्रियम् ।' अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः। गालवस्तं तथा दृष्ट्वा विमनाः पर्यपृच्छत
किमिदं भवता प्राप्तमिहागमनजं फलम्। वासोऽयमिह कालं तु कियन्तं नौ भविष्यति
किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् । न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति
सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज । इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः
यत्र देवो महादेवो यत्र विष्णुः सनातनः । यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति
सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया। मयैतन्नाम प्रध्यातं मनसा शोचसा किल
तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् । सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि
सा तौ तदाऽब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ। न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज संभ्रमम्
निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् । लोकेभ्यः सपदि भ्रश्येद्यो मां निन्देत पापकृत्
हीनयाऽलक्षणैः सर्वैस्तथाऽनिन्दितया मया। आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा
आचारः फलते धर्ममाचारः फलते धनम् । आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम्
तदायुष्मन्खगपते यथेष्टं गम्यतामितः । न च ते गर्हणीयाऽहं गर्हितव्याः स्त्रियः क्वचित्
यदि त्वमात्मनो ह्यर्थे मां चैवादातुमिच्छसि। तदेव नष्टदेहस्तु स्या वै त्वं पन्नगाशन
तस्यैव हि प्रसादेन देवदेवस्य चिन्तनात् । त्वं तु साङ्गस्तु सञ्जातः पुनरेव भविष्यसि
बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ