अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः। इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्। भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज
तमाह विनतासूनुरारोहस्वेति वै द्विजम्। आरुरोहाथ स मुनिर्गरुडं गालवस्तदा
क्रममाणस्य ते रूपं दृश्यते पन्नगाशन। भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः
पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् । प्रस्थितानामिव समं पश्यामीह गतिं खग
ससागरवनामुर्वी सशैलवनकाननाम् । आकर्षन्निव चाभासि पक्षवातेन खेचर
समीननागनक्रं च खमिवारोप्यते जलम्। वायुना चैव महता पक्षवातेन चानिशम्
तुल्यरूपाननान्मत्स्यांस्तथा तिमितिमिङ्गिलान् । नागाश्वनरवक्रांश्च पश्याम्युन्मथितानिव
महार्णवस्य च रवैः श्रोत्रे मे बधिरे कृते। न श्रृणोमि न पश्यामि नात्मनो वेद्मि कारणम्
शनैः स तु भवात्यातु ब्रह्मवध्यामनुस्मरन् । न दृश्यते रविस्तात न दिशो न च खं खग
तम एव तु पश्यामि शरीरं ते न लक्षये । मणी व जात्यौ पश्यामि चक्षुषी तेऽहमण्डज
शरीरं तु न पश्यामि तव चैवात्मनश्च ह। पदेपदे तु पश्यामि शरीरादग्निमुत्थितम्
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः। तन्नियच्छ महावेगं गमने विनतात्मज
न मे प्रयोजनं किंचिद्गमने पन्नगाशन । संनिवर्त महाभाग न वेगं विषहामि ते
गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् । एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम्
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज। ततोऽयं जीवितत्यागे दृष्टो मार्गोमयाऽऽत्मनः
नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् । न चार्थेनापि महता शक्यमेतद्व्यपोहितुम्
एवं बहु च दीनं च ब्रुवाणं गालवं तदा। प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः
नातिप्रज्ञोऽसि विप्रर्षे योत्मानं त्युक्तुमिच्छसि । न चापि कृत्रिमः कालः कालो हि परमेश्वरः
किमहं पूर्वमेवेह भवता नाभिचोदितः। उपायोऽत्र महानस्ति येनैतदुपपद्यते
तदेष ऋषभो नाम पर्वतः सागरान्तिके। अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव
ऋषभस्य ततः शृङ्गं निपत्य द्विजपक्षिणौ। शाण्डिलीं ब्राह्मणीं तत्र ददृशो तपोन्विताम्
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम्। तया च स्वागतेनोक्तौ विष्टरे सन्निषीदतुः
सिद्धमन्नं तया दत्तं बलिमन्त्रोपबृंहितम् । भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावनुमोहितौ
मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया । ` तां दृष्ट्वा चारुसर्वाङ्गी तापसीं ब्रह्मचारिणीम्
ग्रहीतुं हि मनश्चक्रे रूपात्साक्षादिव श्रियम् ।' अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः। गालवस्तं तथा दृष्ट्वा विमनाः पर्यपृच्छत
किमिदं भवता प्राप्तमिहागमनजं फलम्। वासोऽयमिह कालं तु कियन्तं नौ भविष्यति
किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् । न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति
सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज । इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः
यत्र देवो महादेवो यत्र विष्णुः सनातनः । यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति