अत्र विद्युत्प्रभा नाम जझिरेऽप्सरसो दश। अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम्
त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् । अत्र राज्ञा मरुतेन यज्ञेनेष्टं द्विजोत्तम
उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः। जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः
साक्षाद्धैमवतः पुण्यो विमलः कनकाकरः । ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत्
वव्रे धनं महर्षिः स जैमूतं तद्धनं ततः। अत्र नित्यं दिशांपालाः सायंप्रातर्द्विजर्षभ
कस्य कार्यं किमिति वै परिक्रोशान्ति गालव । एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा
उत्तरेति परिख्याता सर्वकर्मस्तु चोत्तरा । एता विस्तरशस्तात तव शङ्गीर्तिता दिशः
चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि। उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः। पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज
गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज । नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी
पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता । देवतानां हि सान्निध्यमत्र कीर्तितवानसि
अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः। इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्। भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज
तमाह विनतासूनुरारोहस्वेति वै द्विजम्। आरुरोहाथ स मुनिर्गरुडं गालवस्तदा
क्रममाणस्य ते रूपं दृश्यते पन्नगाशन। भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः
पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् । प्रस्थितानामिव समं पश्यामीह गतिं खग
ससागरवनामुर्वी सशैलवनकाननाम् । आकर्षन्निव चाभासि पक्षवातेन खेचर
समीननागनक्रं च खमिवारोप्यते जलम्। वायुना चैव महता पक्षवातेन चानिशम्
तुल्यरूपाननान्मत्स्यांस्तथा तिमितिमिङ्गिलान् । नागाश्वनरवक्रांश्च पश्याम्युन्मथितानिव
महार्णवस्य च रवैः श्रोत्रे मे बधिरे कृते। न श्रृणोमि न पश्यामि नात्मनो वेद्मि कारणम्
शनैः स तु भवात्यातु ब्रह्मवध्यामनुस्मरन् । न दृश्यते रविस्तात न दिशो न च खं खग
तम एव तु पश्यामि शरीरं ते न लक्षये । मणी व जात्यौ पश्यामि चक्षुषी तेऽहमण्डज
शरीरं तु न पश्यामि तव चैवात्मनश्च ह। पदेपदे तु पश्यामि शरीरादग्निमुत्थितम्
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः। तन्नियच्छ महावेगं गमने विनतात्मज
न मे प्रयोजनं किंचिद्गमने पन्नगाशन । संनिवर्त महाभाग न वेगं विषहामि ते
गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् । एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम्
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज। ततोऽयं जीवितत्यागे दृष्टो मार्गोमयाऽऽत्मनः
नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् । न चार्थेनापि महता शक्यमेतद्व्यपोहितुम्
एवं बहु च दीनं च ब्रुवाणं गालवं तदा। प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः
नातिप्रज्ञोऽसि विप्रर्षे योत्मानं त्युक्तुमिच्छसि । न चापि कृत्रिमः कालः कालो हि परमेश्वरः
किमहं पूर्वमेवेह भवता नाभिचोदितः। उपायोऽत्र महानस्ति येनैतदुपपद्यते
तदेष ऋषभो नाम पर्वतः सागरान्तिके। अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव