अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते। स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः । अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः
अत्र ध्वजवती नाम कुमारी हरिमेधसः। आकाशे तिष्ठतिष्ठेति तस्थौ सूर्यस्य शासनात्
अत्र वायुस्तथा वह्निरापः खं चापि गालव । आह्निकं चैव नैशं च दुःखं स्पर्शं विमुञ्चति
अतःप्रभृति सूर्यस्य तिर्यगावर्तते गतिः। अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम्
अष्टाविंशतिरात्रं च क्रम्य सह भानुना। निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः । अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणालये
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् । अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम्
अत्रानलसखस्यापि पवनस्य निवेशनम्। महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम्
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः। ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम
यस्मादुत्तार्यते पापाद्यस्मान्निश्रेयसोऽश्रुते । अस्मादुत्तारणबलादुत्तरेत्युच्यते द्विज ।। 1
उत्तरस्य हिरण्यस्य परिवापस्य गालव । मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ । नासौम्यो नाविधेयात्मा नाधर्मो वसते जनः
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः । बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः। `प्रकृत्या पुरुषः सार्धं युगान्ताग्निसमप्रभः
न स दृश्यो मुनिगणैस्तथा देवैः सवासवैः । गन्धर्वयक्षसिद्धैर्वा नरनारायणादृते
अत्र विष्णुः सहस्राक्षः सहस्रचरणोऽव्ययः । सहस्रशिरसः श्रीमानेकः पश्यति मायया
अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत । अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम्
प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम । अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया
अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः । अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव
आधिपत्येन कैलासे धनदोऽप्यभिषेचितः। अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः
अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ । अत्र सौगन्धिकवनं नैर्ऋतैरभिरक्ष्यते
शाद्वलं कदलीस्कन्धमत्र सन्तानका नगाः। अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम्
विमानान्युनुरूपाणि कामभोग्यानि गालव । अत्र ते ऋषयः सप्त देवी चारुन्धती तथा
अत्र तिष्ठति वै रात्रिन्दिवाप्यत्रावतिष्ठते। अत्र यज्ञं समासाद्य ध्रुवं स्थाता पितामहः
ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः । अत्र गङ्गामहाद्वारं रक्षन्ति द्विजसत्तम
धामा नाम महात्मानो मुनयः सत्यवादिनः । न तेषां ज्ञायते मूर्तिर्नाकृतिर्न तपश्चितम्
परिवर्तसहस्रामि कामभोज्याननि गालव । यथायथा प्रविशति तस्मात्परतरं नरः
तथातथा द्विजश्रेष्ठ प्रविलीयति गालव । नैतत्केनचिदन्येन गतपूर्वं द्विजर्षभ
ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् । अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत्