इयं दिग्दियिता राज्ञो वरुणस्य तु गोपतेः । सदा सलिलराजस्य प्रतिष्ठा चादिरेव च
अत्र पश्चादहः सूर्यो विसर्जयति गाः स्वयम् । पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम
यादसामत्र राज्येन सलिलस्य च गुप्तये । कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत्
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् । जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा
अत्र पञ्चात्कृता दैत्या वायुना संयतास्तदा । निश्चसन्तो महावातैरर्दिताः सुषुपुर्द्विज
अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः । अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्यति
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये। जायते जीवलोकस्य हर्तुमर्धमिवायुषः
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् । विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् । अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते
अत्र काञ्चनशैलस्य काञ्चनाम्बुरुहस्य च। उदधेस्तीरमासाद्य सुरभिः क्षरते पयः
अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते। स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः । अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः
अत्र ध्वजवती नाम कुमारी हरिमेधसः। आकाशे तिष्ठतिष्ठेति तस्थौ सूर्यस्य शासनात्
अत्र वायुस्तथा वह्निरापः खं चापि गालव । आह्निकं चैव नैशं च दुःखं स्पर्शं विमुञ्चति
अतःप्रभृति सूर्यस्य तिर्यगावर्तते गतिः। अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम्
अष्टाविंशतिरात्रं च क्रम्य सह भानुना। निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः । अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणालये
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् । अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम्
अत्रानलसखस्यापि पवनस्य निवेशनम्। महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम्
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः। ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम
यस्मादुत्तार्यते पापाद्यस्मान्निश्रेयसोऽश्रुते । अस्मादुत्तारणबलादुत्तरेत्युच्यते द्विज ।। 1
उत्तरस्य हिरण्यस्य परिवापस्य गालव । मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ । नासौम्यो नाविधेयात्मा नाधर्मो वसते जनः
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः । बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः। `प्रकृत्या पुरुषः सार्धं युगान्ताग्निसमप्रभः
न स दृश्यो मुनिगणैस्तथा देवैः सवासवैः । गन्धर्वयक्षसिद्धैर्वा नरनारायणादृते
अत्र विष्णुः सहस्राक्षः सहस्रचरणोऽव्ययः । सहस्रशिरसः श्रीमानेकः पश्यति मायया
अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत । अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम्
प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम । अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया
अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः । अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव