अत्र राक्षसराजेन पौलस्त्येन महात्मना । रावणेन तपः कृत्वा सुरेभ्योऽमरता वृता
अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमेयिवान् । अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा
अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव । अत्र वैतरणी नाम नदी वैतरणैर्वृता
अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते। अत्रावृत्तो दिनकरः सुरसं क्षरते पयः
काष्ठां चासाद्य वासिष्ठीं हिममुत्सृजते पुनः। अत्राहं गालव पुरा क्षुधाऽऽर्तः परिचिन्तयन्
लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ । अत्र चक्रधनुर्नाम सूर्याञ्जातो महानृषिः
विदुर्यं कपिलं देवं येनार्ताः सगरात्मजाः । अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः
अधीत्य सकलान्वेदाँल्लेभिरे मोक्षमक्षयम्। अत्र भोगवती नाम पुरी वासुकिपालिता
तक्षकेण च नागेन तथैवैरावतेन च। अत्र निर्याणकालेऽपि तमः संप्राप्यते महत्
अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना । एष तस्यापि ते मार्गः परिचारस्य गालव । ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु चापराम्
इयं दिग्दियिता राज्ञो वरुणस्य तु गोपतेः । सदा सलिलराजस्य प्रतिष्ठा चादिरेव च
अत्र पश्चादहः सूर्यो विसर्जयति गाः स्वयम् । पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम
यादसामत्र राज्येन सलिलस्य च गुप्तये । कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत्
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् । जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा
अत्र पञ्चात्कृता दैत्या वायुना संयतास्तदा । निश्चसन्तो महावातैरर्दिताः सुषुपुर्द्विज
अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः । अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्यति
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये। जायते जीवलोकस्य हर्तुमर्धमिवायुषः
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् । विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् । अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते
अत्र काञ्चनशैलस्य काञ्चनाम्बुरुहस्य च। उदधेस्तीरमासाद्य सुरभिः क्षरते पयः
अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते। स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः । अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः
अत्र ध्वजवती नाम कुमारी हरिमेधसः। आकाशे तिष्ठतिष्ठेति तस्थौ सूर्यस्य शासनात्
अत्र वायुस्तथा वह्निरापः खं चापि गालव । आह्निकं चैव नैशं च दुःखं स्पर्शं विमुञ्चति
अतःप्रभृति सूर्यस्य तिर्यगावर्तते गतिः। अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम्
अष्टाविंशतिरात्रं च क्रम्य सह भानुना। निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः । अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणालये
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् । अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम्
अत्रानलसखस्यापि पवनस्य निवेशनम्। महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम्
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः। ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम