अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः। अत्रोष्मपाणां देवानां निवासः श्रूयते द्विज
अत्र विश्वे सदा देवाः पितृभिः सार्धमासते। इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम्
एतद्द्वितीयं देवस्य द्वारमाचक्षते द्विज। त्रुटिशो लवशश्चापि गण्यते कालनिश्चयः
अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा। तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः
अत्र धर्मश्च सत्यं च कर्म चात्र निगद्यते। गतिरेषा द्विजश्रेष्ठ कर्मणामवसायिनाम्
एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते। वृता त्वनवबोधेन सुखं तेन न गम्यते
नैर्ऋतानां सहस्रामि बहून्यत्र द्विजर्षभ । सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः
अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च। गायन्ति गाथा गन्धर्वाश्चित्तबुद्धिहरा द्विज
अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः । गतदारो गतामात्यो गतराज्यो वनं गतः
अत्र सावर्मिना चैव यवक्रीतात्मजेन च। मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते
अत्र राक्षसराजेन पौलस्त्येन महात्मना । रावणेन तपः कृत्वा सुरेभ्योऽमरता वृता
अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमेयिवान् । अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा
अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव । अत्र वैतरणी नाम नदी वैतरणैर्वृता
अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते। अत्रावृत्तो दिनकरः सुरसं क्षरते पयः
काष्ठां चासाद्य वासिष्ठीं हिममुत्सृजते पुनः। अत्राहं गालव पुरा क्षुधाऽऽर्तः परिचिन्तयन्
लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ । अत्र चक्रधनुर्नाम सूर्याञ्जातो महानृषिः
विदुर्यं कपिलं देवं येनार्ताः सगरात्मजाः । अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः
अधीत्य सकलान्वेदाँल्लेभिरे मोक्षमक्षयम्। अत्र भोगवती नाम पुरी वासुकिपालिता
तक्षकेण च नागेन तथैवैरावतेन च। अत्र निर्याणकालेऽपि तमः संप्राप्यते महत्
अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना । एष तस्यापि ते मार्गः परिचारस्य गालव । ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु चापराम्
इयं दिग्दियिता राज्ञो वरुणस्य तु गोपतेः । सदा सलिलराजस्य प्रतिष्ठा चादिरेव च
अत्र पश्चादहः सूर्यो विसर्जयति गाः स्वयम् । पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम
यादसामत्र राज्येन सलिलस्य च गुप्तये । कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत्
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् । जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा
अत्र पञ्चात्कृता दैत्या वायुना संयतास्तदा । निश्चसन्तो महावातैरर्दिताः सुषुपुर्द्विज
अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः । अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्यति
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये। जायते जीवलोकस्य हर्तुमर्धमिवायुषः
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् । विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् । अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते
अत्र काञ्चनशैलस्य काञ्चनाम्बुरुहस्य च। उदधेस्तीरमासाद्य सुरभिः क्षरते पयः