निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः। किंचिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम्
एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम्। अष्टौ शतानि मे देहि गच्छ गालव मा चिरम्
एवमुक्तस्तदा तेन विश्वामित्रेण धीमता। नास्ते न शेते नाहारं कुरुते गालवस्तदा
त्वगस्थिभूतो हरिणाश्चिन्ताशोकपरायणः। शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना । गालवो दुःखितो दुःखाद्विललाप सुयोधन
कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कृतः । हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम
कुतो मे भोजने श्रद्धा सुखश्रद्धा कुतश्च मे। श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे
अहं पारे समुद्रस्य पृथिव्या वा परं परात्। गत्वाऽऽत्मानं विमुञ्चामि किं फलं जीवितेन मे
अदनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः । ऋणं धारयमाणस्य कुतः सुखमनीहया
सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् । प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम्
प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः । मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति
न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः । नानृतस्याधिपत्यं च कुत एव गतिः शुभा
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्। अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः
न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम्। पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम्
सोऽहं पापः कृतघ्नस्य कृपणश्चानृतोऽपि च । गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम्
सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् । अर्थिता न मया काचित्कृतपूर्वा दिवौकसाम्
मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे। अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् । विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम्
भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान्। प्रणतो द्रष्टुमिच्छामि कृष्णं योगिनमव्ययम्
एवमुक्ते सखा तस्य गरुडो विनतात्मजः । दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया
सहृद्भवान्मम मतः सुहृदां च मतः सुहृत्। ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति
विभवश्चास्ति मे विप्र वासवावरजो द्विज । पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे
स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् । देशं पारं पृथिव्या वा गच्छ गालव मा चिरम्
अनुशिष्टोऽस्मि देवेन गालव ज्ञानयोनिना। ब्रूहि कामं तु कां यामि द्रष्टुं प्रथममो दिशम्
पूर्वां वा दक्षिणां वाहमथवा पश्चिमां दिशम्। उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव
यस्यामुदयते पूर्वं सर्वलोकप्रभावनः । सविता यत्र सन्ध्यायां साध्यानां वर्तते तपः
यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत्। चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः
कृतं यतो हुतं हव्यं सर्पते सर्वतोदिशम् ।। एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाऽध्वनः
अत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः । यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः
अदोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत। सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम्
एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते। यस्मात्पूर्वतरे काले पूर्वमेवावृतासुरैः
अत एव च सर्वेषां पूर्वामाशां प्रचक्षते । पूर्वं सर्वाणि कार्याणि दैवानि सुखमीप्सता