प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः । माहात्म्यस्य तदा विष्णोः सोऽयं चक्रगदाधरः
दुर्योधनस्तु तच्छ्रुत्वा निश्वसन्भृकुटीमुखः। राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः । ऊरुं गजकराकारं ताडयन्निदमब्रवीत्
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः। तथा महर्षे वर्तामि किं प्रलापः करिष्यति
ततः कण्वोऽब्रवीत्क्रुद्धो दुर्योधनमपण्डितम् । यस्मादूकं ताडयसि ऊरौ मृत्युर्भविष्यति
अनर्थे जातिनिर्बन्धं परार्थे लोभमोहितम्। अनार्यकेष्वभिरतं मरणे कृतनिश्चयम्
ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् । सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम्
कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः। सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः
उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम्। उक्तं बहुविधं चैव नारदेनापि तच्छृणु
दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्। तिष्ठते हि सुह्यद्यत्र न बन्धुस्तत्र तिष्ठते
श्रोतव्यमपि पश्यापि सुहृदां कुरुनन्दन। न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यथा निर्बन्धतः प्राप्तो गालवेन पराजयः
विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा । अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः
सप्तर्षीणामन्यतमं वेषमास्थाय भारत। बभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य तु
विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम् । परमान्नस्य यत्नेन न च तं प्रत्यपालयत्
अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः । अथ गृह्णान्नमत्युष्णं विश्वामित्रोऽप्युपागमत्
भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ । विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः
भक्तं प्रगृह्य मूर्ध्ना वै बाहुभ्यां संशितव्रतः । स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः
तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः । गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया
अथ वर्षशते पूर्णे धर्मः पुनरुपागमत्। वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया
स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा । तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता
प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् । भुक्त्वा प्रीतोस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः
क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः। धर्मस्य वचनात्प्रीतो विश्वामित्रस्तथाऽभवत्
विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः । शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच ह
अनुज्ञातो मया वत्स यथेष्टं गच्छ गवालव। इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम्
प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् । दक्षिणाः काः प्रयच्छामि भवते गुरुकर्मणि
दक्षिणाभिरुपेतं हि कर्म सिद्ध्यति मानद। दक्षिणानां हि दाता वै अपवर्गेण युज्यते
स्वर्गे क्रतुफलं तद्धि दक्षिणा शान्तिरुच्यते। किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति
स जानानस्तु भगवान्खिन्नं शुश्रूषणेन वै। विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत्
असकृद्गच्छगच्छेति विश्वामित्रेण भाषितः । किं ददानीति बहुशो गालवः प्रत्यभाषत