न मत्कृतं वैनतेय न मां क्रोद्धुं त्वमर्हसि। दत्ताभयः स सुमुखो विष्णुना प्रभविष्णुना । श्रत्वा पुरन्दरेणोक्तमुवाच विनतासुतः
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्। त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम। त्रैलोक्यराजराज्यं हि त्वयि वासव शाश्वतम्
ममापि दक्षस्य सुता जननी कश्यपः पिता। अहमत्युत्सहे लोकान्समन्ताद्वोढुमोजसा
असह्यं सर्वभूतानां ममापि विपुलं बलम्। मयाऽपि सुमहत्कर्म कृतं दैतेयविग्रहे
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः । प्रस्रुतः कालकाक्षश्च मयाऽपि दितिजा हताः
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम्। वहामि चैवानुजं ते तेन मामवमन्यसे
कोऽन्यो भारसहो ह्यस्ति कोऽन्योस्ति बलवत्तरः । मया योऽहं विशिष्टः सन्वहामीमं सबान्धवं
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः । तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव
अदित्यां य इमे जाता बलविक्रमशालिनः । त्वमेषां किल सर्वेषां बलेन बलवत्तरः
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः । विमृश त्वं शनैस्तात कोऽन्वत्र बलवानिति
स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम्। अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत्
गरुत्मन्मन्यसेत्मानं बलवन्तं सुदुर्बलम् । अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे। अहमेवात्मनात्मानं वहामि त्वां च धारये
न त्वं वहसि मां दोर्भ्यां मोघं तव विकत्थनम् ।' इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह। यद्येनं धारयस्येकं सफलं ते विकत्थितम्
इत्युक्त्वा भगवांस्तस्य स्कन्धे बाहुं समासजत् । `आरोपितं समुद्वोढुं भारं तं नाशकद्बलात् ।' निपपात स भारार्तो विहलो नष्टचेतनः
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह । एकस्या देहशाखायास्तावद्भारममन्यत
न त्वेनं पीडयामास बलेन बलवत्तरः। ततो हि जीवितं तस्य न व्यनीनशदच्युतः
व्यात्तास्यः स्रस्तकायश्च विचेता विह्वलः खगः । मुमोच पत्राणि तदा गुरुभारप्रपीडितः
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः। विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत्
भगवँल्लोकसारस्य सदृशेन वपुष्मता। भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः। बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः
न हि ज्ञातं बलं देव मया ते परम विभो। तेन मन्याम्यहं वीर्यमात्मनो न समं परैः
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः। मैवं भूय इति स्नेहात्तदा चैनमुवाच ह
पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि। ततः प्रभृति राजेन्द्र सहसर्पेण वर्तते
एवं विष्णुबलाक्रान्तो गर्वनाशमुपागतः। गरुडो बलवान्राजन्वैनतेयो महायशाः
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे। नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः । धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे
विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ । एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः
तदलं ते विरोधेन शमं गच्छ नृपात्मज । वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि