सोऽयं मया च सहितो नारदेन च पन्नगः। त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम्
शेषेणैवास्य कार्येण प्रज्ञास्वाम्यहमायुषः । सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम
सुमुखश्च मया सार्धं देवेशमिगच्छतु। कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम
आर्यकेणाभ्यनुज्ञाता गम्यतामिति भारत।' ततस्ते सुमुखं गृह्य सर्व एव महौजसः। ददृशुः शक्रमासीनं देवराजं महाद्युतिम्
सङ्गत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः । ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति
ततः पुरन्दरं विष्णुरुवाच भुवनेश्वरम्। अमृतं दीयतामस्मै क्रियताममरैः समः
मातलिर्नारदश्चैव सुमुखश्चैव वासव। लभन्तां भवतः कामात्काममेतं यथेप्सितम्
पुरन्दरोऽथ संचिन्त्य वैनतेयपराक्रमम् । विष्णुमेवाब्रवीदेनं भवानेव ददात्विति
ईशस्त्वं सर्वलोकानां चराणामचराश्च ये। त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो
प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम्। न त्वेनममृतप्राशं चकार बलवृत्रहा
लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह। कृतदारो यथाकामं जगाम च गृहान्प्रति
नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ । अभिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम्
गरुडस्तत्र शुश्राव यथावृत्तं महाबलः । आयुःप्रदानं शक्रेण कृतं नागस्य भारत
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः। सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत्
भगवन्किमवज्ञानाद्वृत्तिः प्रतिहता मम। कामकारवरं दत्त्वा पुनश्चलितवानसि
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे। आहारो विहितो धात्रा किमर्थं वार्यते त्वया
वृतश्चैष महानागः स्थापितः समयश्च मे। अनेन च मया देव भर्तव्यः प्रसवो महान्
एतस्मिंस्तु तथाभूते नान्यं हिंसितुमुत्सहे । क्रीडसे कामकारेण देवराज यथेच्छकम्
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम। ये च भृत्या मम गृहे प्रीतिमान्भव वासव
श्रुत्वा सुपर्णवचनं सुमुखो दुर्मुखस्तदा। त्यक्त्वा रूपं विवर्णस्तु सर्परूपधरोऽभवत् । गत्वा विष्णुसमीपं तु पादपीठं समाश्लिषत्
न मत्कृतं वैनतेय न मां क्रोद्धुं त्वमर्हसि। दत्ताभयः स सुमुखो विष्णुना प्रभविष्णुना । श्रत्वा पुरन्दरेणोक्तमुवाच विनतासुतः
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्। त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम। त्रैलोक्यराजराज्यं हि त्वयि वासव शाश्वतम्
ममापि दक्षस्य सुता जननी कश्यपः पिता। अहमत्युत्सहे लोकान्समन्ताद्वोढुमोजसा
असह्यं सर्वभूतानां ममापि विपुलं बलम्। मयाऽपि सुमहत्कर्म कृतं दैतेयविग्रहे
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः । प्रस्रुतः कालकाक्षश्च मयाऽपि दितिजा हताः
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम्। वहामि चैवानुजं ते तेन मामवमन्यसे
कोऽन्यो भारसहो ह्यस्ति कोऽन्योस्ति बलवत्तरः । मया योऽहं विशिष्टः सन्वहामीमं सबान्धवं
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः । तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव
अदित्यां य इमे जाता बलविक्रमशालिनः । त्वमेषां किल सर्वेषां बलेन बलवत्तरः