दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा। तदा वसुमनापृच्छन्मातरं वै तपस्विनीम्
भवत्या यत्कृतमिदं वन्दनं पादयोरिह। कोयं देवोपमो राजा याऽभिवन्दसि मे वद
शृणुध्वं सहिताः पुत्रा नाहुषोयं पिता मम। ययातिर्मम पुत्राणां मातामह इति स्मृतः
पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः। केन वा कारणेनैवमिह प्राप्तो महायशाः
तस्यास्तद्वचनं श्रुत्वा स्वर्गाद्भ्रष्टेति चाब्रवीत्। सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना
माधवी पितरं प्राह दौहित्रपरिवारितम्। तपसा निर्जिताँल्लोकान्प्रतिगृह्णीष्व मामकान्
पुत्राणामिव पौत्राणां धर्मादधिगतं धनम्। स्वार्थणेव वदन्तीह ऋषयो धर्मपाठकाः। तस्माद्दानेन तपसा चास्माकं दिवमाव्रज
यदि धर्मफलं ह्येतच्छोभनं भविता तव। दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः
तस्मात्पवित्रं दौहित्रमद्यप्रभृति पैतृके। त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम्। भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः
दिवसस्याष्टमे भागे मन्दीभवति भास्करे। स कालः कुतपो नाम पितॄणां दत्तमक्षयम्
तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात्। रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर्भुक्तमक्षयम्
लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम्। स कालः कालतो दत्तं नान्यथा काल इष्यते
एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान्। सर्वे ह्यवभृथस्नातास्त्वरध्वं कार्यगौरवात्
आतिष्ठ स्वरथं राजन्विक्रमस्व विहायसम्। वयमप्यनुयास्यामो यदा कालो भविष्यति
सर्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम्। एष नो विरजाः पन्था दृश्यते देवसद्मनः
अष्टकश्च शिबिश्चैव काशेयश्च प्रतर्दनः। ऐक्ष्वाकवो वसुमनाश्चत्वारो भूमिपास्तदा। सर्वे ह्यवभृथस्नाताः स्वर्गताः साधवः सह
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपस्तमाः। आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी
अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा। कस्मादेवं शिबिरौशीनरोऽय- मेकोऽत्यगात्सर्ववेगेन वाहान्
अददद्याचमानाय यावद्वित्तमविन्दत। उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठोहि वः शिबिः
दानं तपः संत्यमथाऽपि धर्मो ह्रीः श्रीः क्षमा सौम्यमथो विधित्सा। राजन्नेतान्यप्रमेयाणि राज्ञः शिबेः स्थितान्यप्रतिमस्य बुद्ध्या
एवं वृत्तो ह्रीनिषेवश्च यस्मा- त्तस्माच्छिबिरत्यगाद्वै रथेन
पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि सुतश्च कस्य। कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा
ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वबौमस्त्विहासम्। गुह्यं चार्थं मामकेभ्यो ब्रवीमि मातामहोऽहं भवतां प्रकाशम्
सर्वामिमां पृथिवीं निर्जिगाय दत्त्वा प्रतस्थे विपिनं ब्राह्मणेभ्यः। मेध्यानश्वानेकशतान्सुरूपां- स्तदा देवाः पुण्यभाजो भवन्ति
अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलां वाहनेन। गोभिः सुवर्णेन धनैश्च मुख्यै- स्तदाऽददं गाः शथमर्बुदानि
सत्येन मे द्यौश्च वसुन्धरा च तथैवाग्निज्वर्लते मानुषेषु। न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति
यदष्टक प्रब्रवीमीह सत्यं प्रतर्दनं चौषदश्विं तथैव। सर्वे च लोका मुनयश्च देवाः सत्येन पूज्या इति मे मनोगतम्
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत्। अनसूयुर्द्विजाग्र्येभ्यः स लभेन्नः सलोकताम्
एवं राजा स महात्मा ह्यतीव स्वैर्दौहित्रैस्तारितोऽमित्रसाह। त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम्