दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः । कौरव्यो धृतराष्ट्रश्च कुहुरः कृशकस्तथा
विरजा धारणश्चैव सुबाहुर्मुखरो जयः । बधिरान्धौ विशुण्डिश्च विरसः सुरसस्तथा
एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः । मातले पश्य यद्यत्र कश्चित्ते रोचते वरः
मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै। पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत्
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य तु। द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः
कः पिता जननी चास्य कतमस्यैष भोगिनः। वंशस्य कस्यैष महान्केतुभूत इव स्थितः
प्रणिधानेन धैर्येण रूपेण वयसा च मे। मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः
मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात्। निवेदयामास तदा माहात्म्यं जन्म कर्म च
ऐरावतकुले जातः सुमुखो नाम नागराट्। आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च
एतस्य हि पिता नागश्चिकुरो नाम मातले। नचिराद्वैतनेयेन पञ्चत्वमुपपादितः
ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः । एष मे रुचितस्तात जामाता भुजगोत्तमः
क्रियतामत्र यत्नो वै प्रीतिमानस्म्यनेन वै। अस्मै नागाय वै दातुं प्रियां दुहितरं मुने
मातलेर्वचनं श्रुत्वा नारदो मुनिसत्तमः। अब्रवीद्देवराजं तमार्यकं कुरुनन्दन
सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत्। शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली
शक्रस्यायं सखा चैव मन्त्री सारथिरेव च । अल्पान्तरप्रभावश्च वासवेन रणे रणे
अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् । देवासुरेषु युद्धेषु मनसैव नियच्छति
अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः । अनेन बलभित्पूर्वं प्रहृते प्रहरत्युत
अस्य कन्या वरारोहा रूपेणासदृशी भुवि । सत्यशीलगुणोपेता गुणकेशीति विश्रुता
तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते। सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः
यदि ते रोचते सम्यग्भुजगोत्तम मा चिरम् । क्रियतामार्यक क्षिप्रं बुद्धिः कन्यापरिग्रहे
यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः । कुले तव तथैवास्तु गुणकेशी सुमध्यमा
पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु । सदृशीं प्रतिरूपस्य वासवस्य शचीमिव
पितृहीनमपि ह्येनं गुणतो वरयामहे। बहुमानाच्च भवतस्तथैवैरावतस्य च
सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः । अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः । मातलिस्तस्य संमानं कर्तुमर्हो भवानपि
स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः । व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते
मन्ये नैतद्बहुमतं महर्षे वचनं तव। सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत्। कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने
अस्य देहकरस्तात मम पुत्रो महाद्युते। भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम्
पुनरेव च तेनोक्तं वैनतेयेन गच्छता । मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो
ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम्। तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै
मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया। जामातृभावेन वृतः सुमुखस्तव पुत्रजः