यद्यत्र न रुचिः काचिदेहि गच्छाव मातले । तं नयिष्यामि देशं त्वां वरं यत्रोपलप्स्यसे
इदं रसातलं नाम सप्तमं पृथिवीतलम्। यत्रास्ते सुरभिर्माता गवाममृतसंभवा
क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम् । षण्णं रसानां सारेण रसमेकमनुत्तमम्
अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा। पितामहस्य वदनादुदतिष्ठदनिन्दिता
यस्याः क्षीरस्य धाराया निपतन्त्या महीतले। ह्रदः कृतः क्षीरनिधिः पवित्रं परमुच्यते
पुष्पितस्येव फेनेन पर्यन्तमनुवेष्टितम्। पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः
फेनपा नाम ते ख्याताः फेनाहाराश्च मातले। उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः
अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले। निवसन्ति दिशां पाल्यो धारयन्त्योदिशःस्म ताः
पूर्वां दिशं धारयते सुरूपा नाम सौरभी । दक्षिणां हंसिका कनाम धारयत्यपरां दिशम्
पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया। महानुभावया नित्यं मातले विश्वरूपया
सर्वकामदुघा नाम धेनुर्धारयते दिशम्। उत्तरां मातले धर्म्यां तथैलविलसंश्रिताम्
आसां त पयसा मिश्रं पयो निर्मथ्य सागरे । मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः
अद्धृता वारुणी लक्ष्मीरमृतं चापि मातले। उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम्
सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम्। अमृतं चामृताशेषु सुरभी क्षरते पयः
अत्र गाथा पुरा गीता रसातलनिवासिभिः । पौराणी श्रूयते लोके गीयते या मनीषिभिः
न नागलोके न स्वर्गे न विमाने त्रिविष्टपे। परिवासः सुखस्तादृक् रसातलतले यथा
इयं भोगवती नाम पुरी वासुकिपालिता। यादृशी देवराजस्य पुरी वर्याऽमरावती
एष शेषः स्थितो नागो येनेयं धार्यते सदा। तपसा लोकमुख्येन प्रभावसहिता मही
श्वेताचलनिभाकारो दिव्याभरणभूषितः । सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः
इह नानाविधाकारा नानाविधविभूषणाः। सुरसायाः सुता नागा निवसन्ति गतव्यथाः
मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः। सहस्रसंख्या बलिन सर्वे रौद्राः स्वभावतः
सहस्रशिरसः केचित्केचित्पञ्चशताननाः । शतशीर्षास्तथा केचित्केचित्रिशिरसोऽपि च
द्विपञ्चशिरसः केचित्केचित्सप्तसुखास्तथा। महाभोगा महाकायाः पर्वताभोगभोगिनः
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। नागानामेकवंशानां यथाश्रेष्ठं तु मे श्रुणु
वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ। कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ
बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः। वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा
आर्यको नन्दकश्चैव तथा कलशपोतकौ । कैलासकः पिञ्जरको नागश्चैरावतस्तथा
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ । आप्तः कोटरकश्चैव शिखी निष्ठूरिकस्तथा
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः। द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः
करवीरः पीठरकः संवृत्तो वृत्त एव च। पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः