असुराः कालखञ्जाश्च तथा वुष्णुपदोद्भवाः । नैर्ऋता यातुधानाश्च ब्रह्मपादोद्भवाश्च ये
दंष्ट्रिणो भीमवेगाश्च वातवेगपराक्रमाः । मायावीर्योपसंपन्ना निवसन्त्यत्र मातले
निवातकवचा नाम दानवा युद्धदुर्मदाः । जानासि च यथा शक्रो नैताञ्शक्रोति बाधितुं
बहुशो मातले त्वं च तव पुत्रश्च गोमुखः । निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः
पश्य वेश्मानि रौक्माणि मातले राजतानि च । कर्मणा विधियुक्तेन युक्तान्युपगतानि च
वैदूर्यमणिचित्राणि प्रवालरुचिराणि च । अर्कस्फटिकशुभ्राणि वज्रसारोञ्ज्वलानि च
पार्थिवानीव चाभास्ति पद्मरागमयानि च। शैलानीव च दृश्यन्ते दारवाणीव चाप्युत
सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च । मणिजालविचित्राणि प्रांशूनि निबिडानि च
नैतानि शक्यं निर्देष्टु रूपतो द्रव्यतस्तथा । गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च
आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत । रत्नवन्ति महार्हाणि भाजनान्यासनानि च
जलदाभांस्तथा शैलांस्तोयप्रस्रवणानि च । कामपुष्पफलांश्चापि पादपान्कापचारिणः
मातले कश्चिदत्रापि रुचिरस्ते वरो भवेत् । अथवाऽन्यां दिशं भूमेर्गच्छाव यदि मन्यसे
मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् । देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम्
नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः । परपक्षेण संबन्धं रोचयिष्याम्यहं कथम्
अन्यत्र साधु गच्छाव द्रष्टुं नार्हामि दानवान् । जानामि तव चात्मानं हिंसात्मकमनं तथा
अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् । विक्रमे गमने भारे नैषामस्ति परिश्रमः
वैनतेयसुतैः सूत पङ्भिस्ततमिदं कुलम् । सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा
सुरुचा पक्षिराजेन सुबलेन च मातले। वर्धितानि प्रसृत्या वै विनाताकुलकर्तृभिः
पक्षिराजाभिजात्यानां सहस्राणि शतानि च। कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः
सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः । सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत
कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः । ज्ञातिसङ्क्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वैः
नामानि चैषां वक्ष्यामि यथाप्राधान्यतः श्रृणु । मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम्
दैवतं विष्णुरेतेषां विष्णुरेव परायणम् । हृदि चैषां सदा विष्णुर्विष्णुरेव सदा गतिः
सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः । अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली
पङ्कजिद्वज्रविष्कम्भो वैनतेयोऽथ वामनः । वातवेगो दिशाचक्षुर्निमेषोऽनिमिषस्तथा
त्रिरावः सप्तरावश्च वाल्मीकिर्दीपकस्तथा । दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेतनः
सुमुखश्चित्रकेतुश्च चित्रबर्हस्तथाऽनघः। मेषहृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः
गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः । विष्णुधर्मा कुमारश्च परिबर्हो हरिस्तथा
सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च। मालयो मातरिश्वा च निशाकरदिवाकरौ
एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः । प्राधान्यतस्ते यशसा कीर्तिताः प्राणिनश्चये