अत्रादित्यो हयशिराः काले पर्वणि पर्वणि । उत्तिष्ठति सुवर्णाख्यो वाग्भिरापूरयञ्जगत्
यस्मादलं समस्तास्ताः पतन्ति जलमूर्तयः । तस्मात्पातालमित्येव ख्यायते पुरमुत्तमम्
ऐरावणोऽस्मात्सलिलं गृहीत्वा जगतो हितः । मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति
ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः । प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः
अत्र नानाविधाकारास्तिमयो नैकरूपिणः । अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः
अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः । मृता हि दिवसे सूत पुनर्जीवन्ति वै निशि
उदयन्नित्यशश्चात्र चन्द्रमा रश्मिबाहुभिः । अमृतं स्पृश्य संस्पर्शात्संजीवयतिदेहिनः
अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः । दैतेया निवसन्ति स्म वासवेन हृतश्रियः
अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः । भूतये सर्वभूतानामचरत्तप उत्तमम्
अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः । त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः
यत्रतत्रशयो नित्यं येनकेनचिदाशितः। येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते
पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः । वरयिष्यामि तं गत्वा यत्नमास्थाय मातले
अण्डमेतञ्जले न्यस्तं दीप्यमानमिव श्रिया । आप्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति
नास्य जातिं निसर्गं वा कथ्यमानं श्रृणोमि वै। पितरं मातरं चापि नास्य जानाति कश्चन
अतः किल महानग्निरन्तकाले समुत्थितः। धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम्
मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम् । न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम्
हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत्। दैत्यानां दानवानां च मायाशतविचारिणाम्
अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा । मयेन मनसा सृष्टं पातालतलमाश्रितम्
अत्र मायासहस्राणि वविकुर्वाणा महौजसः । दानवा निवसन्ति स्म शूरा दत्तवराः पुरा
नैते शक्रेण नान्येन यमेन वरुणेन वा। शक्यन्ते वशमानेतुं तथैव धनदेन च
असुराः कालखञ्जाश्च तथा वुष्णुपदोद्भवाः । नैर्ऋता यातुधानाश्च ब्रह्मपादोद्भवाश्च ये
दंष्ट्रिणो भीमवेगाश्च वातवेगपराक्रमाः । मायावीर्योपसंपन्ना निवसन्त्यत्र मातले
निवातकवचा नाम दानवा युद्धदुर्मदाः । जानासि च यथा शक्रो नैताञ्शक्रोति बाधितुं
बहुशो मातले त्वं च तव पुत्रश्च गोमुखः । निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः
पश्य वेश्मानि रौक्माणि मातले राजतानि च । कर्मणा विधियुक्तेन युक्तान्युपगतानि च
वैदूर्यमणिचित्राणि प्रवालरुचिराणि च । अर्कस्फटिकशुभ्राणि वज्रसारोञ्ज्वलानि च
पार्थिवानीव चाभास्ति पद्मरागमयानि च। शैलानीव च दृश्यन्ते दारवाणीव चाप्युत
सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च । मणिजालविचित्राणि प्रांशूनि निबिडानि च
नैतानि शक्यं निर्देष्टु रूपतो द्रव्यतस्तथा । गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च
आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत । रत्नवन्ति महार्हाणि भाजनान्यासनानि च