यदर्होऽहं तद्यतध्वं सन्तः सत्याभिनन्दिनः। अहं तन्नाभिजानामि यत्कृतं न मया पुरा
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः। यानारुह्य नरो लोकानभिवाञ्छति शाश्वतान्
युष्मानेते वहिष्यन्ति रथाः पञ्च हिरण्मयाः। उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव
अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा। हयस्य यानि चाङ्गानि संनिकृत्य यथाक्रमम्
होताऽध्वर्युरथोद्गाता ब्रह्मणा सह भारत। अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः
धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि। विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः
एतस्मिन्नन्तरे चैव माधवी सा तपोधना। मृगचर्मपरीताङ्गी परिधाय मृगत्वचम्
मृगैः परिचरन्ती सा मृगाहारविचेष्टिता। यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता
आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा। यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान्
पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी। असंस्पृशन्तं वसुधां ययातिं नाहुषं यदा
दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा। तदा वसुमनापृच्छन्मातरं वै तपस्विनीम्
भवत्या यत्कृतमिदं वन्दनं पादयोरिह। कोयं देवोपमो राजा याऽभिवन्दसि मे वद
शृणुध्वं सहिताः पुत्रा नाहुषोयं पिता मम। ययातिर्मम पुत्राणां मातामह इति स्मृतः
पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः। केन वा कारणेनैवमिह प्राप्तो महायशाः
तस्यास्तद्वचनं श्रुत्वा स्वर्गाद्भ्रष्टेति चाब्रवीत्। सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना
माधवी पितरं प्राह दौहित्रपरिवारितम्। तपसा निर्जिताँल्लोकान्प्रतिगृह्णीष्व मामकान्
पुत्राणामिव पौत्राणां धर्मादधिगतं धनम्। स्वार्थणेव वदन्तीह ऋषयो धर्मपाठकाः। तस्माद्दानेन तपसा चास्माकं दिवमाव्रज
यदि धर्मफलं ह्येतच्छोभनं भविता तव। दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः
तस्मात्पवित्रं दौहित्रमद्यप्रभृति पैतृके। त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम्। भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः
दिवसस्याष्टमे भागे मन्दीभवति भास्करे। स कालः कुतपो नाम पितॄणां दत्तमक्षयम्
तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात्। रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर्भुक्तमक्षयम्
लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम्। स कालः कालतो दत्तं नान्यथा काल इष्यते
एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान्। सर्वे ह्यवभृथस्नातास्त्वरध्वं कार्यगौरवात्
आतिष्ठ स्वरथं राजन्विक्रमस्व विहायसम्। वयमप्यनुयास्यामो यदा कालो भविष्यति
सर्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम्। एष नो विरजाः पन्था दृश्यते देवसद्मनः
अष्टकश्च शिबिश्चैव काशेयश्च प्रतर्दनः। ऐक्ष्वाकवो वसुमनाश्चत्वारो भूमिपास्तदा। सर्वे ह्यवभृथस्नाताः स्वर्गताः साधवः सह
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपस्तमाः। आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी
अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा। कस्मादेवं शिबिरौशीनरोऽय- मेकोऽत्यगात्सर्ववेगेन वाहान्
अददद्याचमानाय यावद्वित्तमविन्दत। उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठोहि वः शिबिः