मुहूर्तमरणास्त्वन्ये मानुषा मूगपक्षिणः। तैर्यग्योन्याश्च ये चान्ये जीवलोकचरास्तथा
भूयिष्ठेन तु राजानः श्रियं भुक्त्वाऽऽयुषः क्षये। तरुणाः प्रतिपद्यन्ते भोक्तुं सुकृतदुष्कृते
स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हसि । पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धरान्
बलवानहमित्येव न मन्तव्यं सुयोधन । बलवन्तो बलिभ्यो हि दृश्यन्ते पूरुषर्षभ
न बलं बलिनां मध्ये बलं भवति कौरव । बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । मातलेर्दातुकामस्य कन्यां मृगयतो वरम्
मतस्त्रिलोकराजस्य मातलिर्नाम सारथिः। तस्यैकैव कुले मन्या रूपतो लोकविश्रुता
गुणकेशीति विख्याता नाम्ना सा देवरूपिणी । श्रिया च वपुषा चैव स्त्रियोऽन्याःसाऽतिरिच्यते
तस्याः प्रदानसमयं मातलिः सह भार्यया । ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन्
धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम्। नराणां मृदुसत्वानां कुले कन्याप्ररोहणम्
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते। कुलत्रयं संशयितं कुरुते कन्यका सताम्
देवमानुषलोकौ द्वौ मानुषेणैव चक्षुषा। अपगाह्यैव विचितौ न च मे रोचते वरः
न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान्। अरोचयद्वरकृते तथैव बहुलानृषीन्
भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया । मातलिर्नागलोकाय चकार गमने मतिम्
न मे देवमनुष्येषु गुणकेश्याः समो वरः। रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम्
इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम्। कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम्
एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम्। पातालमिति विख्यातं दैत्यदानवसेवितम्
इदमद्भिः समं प्राप्ता ये केचिद्भुवि जङ्गमाः। प्रविशन्तो महानादं नदन्ति भयपीडिताः
अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः। व्यापारेण धृतात्मानं निबद्धं समबुध्यत
अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः ।। अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते
अत्रादित्यो हयशिराः काले पर्वणि पर्वणि । उत्तिष्ठति सुवर्णाख्यो वाग्भिरापूरयञ्जगत्
यस्मादलं समस्तास्ताः पतन्ति जलमूर्तयः । तस्मात्पातालमित्येव ख्यायते पुरमुत्तमम्
ऐरावणोऽस्मात्सलिलं गृहीत्वा जगतो हितः । मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति
ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः । प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः
अत्र नानाविधाकारास्तिमयो नैकरूपिणः । अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः
अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः । मृता हि दिवसे सूत पुनर्जीवन्ति वै निशि
उदयन्नित्यशश्चात्र चन्द्रमा रश्मिबाहुभिः । अमृतं स्पृश्य संस्पर्शात्संजीवयतिदेहिनः
अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः । दैतेया निवसन्ति स्म वासवेन हृतश्रियः
अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः । भूतये सर्वभूतानामचरत्तप उत्तमम्
अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः । त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः