यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे। एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः
इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् । दम्भोद्भवस्तापसं तं जिवांसुः सहसैनिकः
तस्य तानस्यतो घोरानिषून्परतनुच्छिदः। कदर्थीकृत्य स मुनिरिषीकाभिः समार्पयत्
ततोऽस्मौ प्रासृजद्धोरमैषीकमपराजितः। अस्त्रमप्रतिसन्धेयं तदुद्भुतमिवाभवत्
तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया । निमित्तवेधी स मुनिरीषीकाभिः समार्पयत्
स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् । पादयोर्न्यपतद्राजा स्वस्ति मेस्त्विति चाब्रवीत्
तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् । ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः
नैतादृक्पुरुषो राजन्क्षत्रधर्ममनुस्मरन्। मनसा नृपशार्दूल भवेत्परपुरञ्जयः
मा च दर्पसमाविष्टः वा तत्ते राजन्समाहितम् ।। कृतप्रज्ञो वीतलोभो निरहङ्कार आत्मवान्
दान्तः क्षान्तो मृदुः सौम्य प्रजाः पालय पार्थिव ।। मास्म भूयः क्षिपेः कंचिदविदित्वा बलाबलम्
अनुज्ञातः स्वस्ति गच्च मैवं भूयः समाचरेः । कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम्
ततो राजा तयोः पादावभिवाद्य महात्मनोः । प्रत्याजगाम स्वपुरं धर्मं चैवाचरद्भृशम्
सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा । ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत्
तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते। तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जयम्
काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा। सन्तानं नर्तकं घोरमास्यमोदकमष्टमम्
एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः । उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः
स्वपन्ति च प्लवन्ते च च्छर्दयन्ति च मानवाः । मूत्रयन्ते च सततं रुदन्ति च हसन्ति च
कामक्रोधौ लोभमोहौ मदमानौ तथैव च। मात्सर्याहङ्कुती चैव क्रमादेत उदाहृताः
निर्माता सर्वलोकानामीश्वरः सर्वकर्मवित्। यस्य नारायणो बन्धुरर्जुनो दुःसहो युधि
कस्तमुत्सहते जेतुं त्रिषु लोकेषु भारत। वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि
असङ्ख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः। त्वमेव भूयो जानासि कुन्तीपुत्रं धनञ्जयम्
नरनारायणौ यौ तौ तावेवार्जुनकेशवौ । विजानीहि महाराज प्रवीरौ पुरुषोत्तमौ
यद्येतदेवं जानासि न च मामभिशङ्कसे । आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः
अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति । प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः
भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि । तत्तथैवास्तु भद्रं ते स्वार्थमेवोपचिन्तय
जामदग्न्यवचः श्रुत्वा कण्वेऽपि भगवानृषिः । दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि
अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः। तथैव भगवन्तौ तौ नरनारायणावृषी
आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः। अजथ्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः
निमित्तमरणाश्चान्ये चन्द्रसूर्यौ मही जलम् । वायुरग्निस्तथाऽऽकाशं ग्रहास्तारागणास्तथा
ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा। क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः