तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ । शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ
अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम्। तमर्चित्वा मूलफलैरासनेनोदकेन च
न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति। ततस्तामानुपूर्वी स पुनरेवान्वकीर्तयत्
बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः। भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम्
आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति
न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः । अन्यत्र युद्धमाकाङ्क्ष बहवः क्षत्रियाः क्षितौ
उच्यमानस्तथाऽपि स्म भूय एवाभ्यभाषत। पुनः पुनः क्षाम्यमाणः सान्त्व्यमानश्च भारत
दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ । ततो नरस्त्विषीकाणां मुष्टिमादाय भारत
अब्रवीदेहि युद्ध्यस्व युद्धकामुक क्षत्रिय। सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम्
अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् । `यदाह्वयसि दर्पेण ब्राह्मणप्रमुखाञ्जनान्
यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे। एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः
इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् । दम्भोद्भवस्तापसं तं जिवांसुः सहसैनिकः
तस्य तानस्यतो घोरानिषून्परतनुच्छिदः। कदर्थीकृत्य स मुनिरिषीकाभिः समार्पयत्
ततोऽस्मौ प्रासृजद्धोरमैषीकमपराजितः। अस्त्रमप्रतिसन्धेयं तदुद्भुतमिवाभवत्
तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया । निमित्तवेधी स मुनिरीषीकाभिः समार्पयत्
स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् । पादयोर्न्यपतद्राजा स्वस्ति मेस्त्विति चाब्रवीत्
तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् । ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः
नैतादृक्पुरुषो राजन्क्षत्रधर्ममनुस्मरन्। मनसा नृपशार्दूल भवेत्परपुरञ्जयः
मा च दर्पसमाविष्टः वा तत्ते राजन्समाहितम् ।। कृतप्रज्ञो वीतलोभो निरहङ्कार आत्मवान्
दान्तः क्षान्तो मृदुः सौम्य प्रजाः पालय पार्थिव ।। मास्म भूयः क्षिपेः कंचिदविदित्वा बलाबलम्
अनुज्ञातः स्वस्ति गच्च मैवं भूयः समाचरेः । कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम्
ततो राजा तयोः पादावभिवाद्य महात्मनोः । प्रत्याजगाम स्वपुरं धर्मं चैवाचरद्भृशम्
सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा । ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत्
तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते। तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जयम्
काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा। सन्तानं नर्तकं घोरमास्यमोदकमष्टमम्
एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः । उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः
स्वपन्ति च प्लवन्ते च च्छर्दयन्ति च मानवाः । मूत्रयन्ते च सततं रुदन्ति च हसन्ति च
कामक्रोधौ लोभमोहौ मदमानौ तथैव च। मात्सर्याहङ्कुती चैव क्रमादेत उदाहृताः
निर्माता सर्वलोकानामीश्वरः सर्वकर्मवित्। यस्य नारायणो बन्धुरर्जुनो दुःसहो युधि
कस्तमुत्सहते जेतुं त्रिषु लोकेषु भारत। वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि