अनर्थमर्थं मन्वानोऽप्यर्थं चानर्थमात्मनः । लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशांपते
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः । यत्ते पथ्यतमं राजंस्तस्मिंतिष्ठ परन्तप
तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन्। न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः
तस्मिन्नभिहिते वाक्ये केशवेन महात्मना। स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः
कस्स्विदुत्तरमेतेषां वक्तुमुत्सहते पुमान्। इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः
तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु । जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि
इमां मे सोपमां वाचं श्रृणु सत्यामशङ्कितः । तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे
राजा दम्भोद्भवो नाम सार्वभौमः पुराऽभवत्। अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम्
स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् । ब्राह्मणान्क्षत्रियान्वैश्यान्पृच्छन्नास्ते महारथः
अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि । शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वाऽपि शस्त्रभृत्
इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम्। दर्पेण महता मत्तः कञ्चिदन्यमचिन्तयन्
तं च वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः। प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः
निषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् । अतिमानं श्रिया मत्तं तमूचुर्ब्राह्मणास्तदा
तपस्विनो महात्मानो वेदप्रत्ययदर्शिनः । उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः
अनेकजयिनौ शङ्ख्ये यौ वै पुरुषसत्तमौ । तयोस्त्वं न समो राजन्भवितासि कदाचन
एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान्। क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ
नरो नारायणश्चैव तापसाविति नः श्रुतम्। आयातौ मानुषे लोके ताभ्यां युद्ध्यस्व पार्थिव
श्रूयेते तौ महात्मानौ नरनारायणावुभौ । तपो घोरमनिर्देश्यं तप्येते गन्धमादने
स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् । अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ
स गत्वा विषमं घोरं पर्वतं गन्धमादनम्। मार्गमाणोऽन्वगच्छत्तौ तापसौ वनमाश्रितौ
तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ । शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ
अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम्। तमर्चित्वा मूलफलैरासनेनोदकेन च
न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति। ततस्तामानुपूर्वी स पुनरेवान्वकीर्तयत्
बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः। भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम्
आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति
न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः । अन्यत्र युद्धमाकाङ्क्ष बहवः क्षत्रियाः क्षितौ
उच्यमानस्तथाऽपि स्म भूय एवाभ्यभाषत। पुनः पुनः क्षाम्यमाणः सान्त्व्यमानश्च भारत
दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ । ततो नरस्त्विषीकाणां मुष्टिमादाय भारत
अब्रवीदेहि युद्ध्यस्व युद्धकामुक क्षत्रिय। सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम्
अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् । `यदाह्वयसि दर्पेण ब्राह्मणप्रमुखाञ्जनान्