पृच्छामि त्वां वसुमानौषदश्वि- र्यद्यस्ति लोको दिवि मे नरेन्द्र। यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च। लोकास्तावन्तो दिवि संस्थिता वै तेनान्तवन्तः प्रतिपालयन्ति
तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु। क्रीणीष्वैतांस्तृणकेनापि राज- न्प्रतिग्रहस्ते यदि धीमन्प्रदुष्टः
न मिथ्याऽहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः। कुर्यां न चैवाकृतपूर्वमन्यै- र्विधित्समानः किमु तत्र साधुः
तांस्त्वं लोकान्प्रतिपद्यस्व राज- न्मया दत्तान्यदि नेष्टः क्रयस्ते। अहं न तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तव ते वै भवन्तु
पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्तीह तात। यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
यत्त्वं वाचा हृदयेनापि साधू- न्परीप्समानान्नावमंस्था नरेन्द्र। तेनानन्ता दिवि लोकाः श्रितास्ते विद्युद्रूपाः स्वनवन्तो महान्तः
तांस्त्वं लोकान्प्रतिपद्यस्व राज- न्मया दत्तान्यदि नेष्टः क्रयस्ते। न चाहं तान्प्रतिपत्स्ये ह दत्त्वा यत्र गत्वा नानुशोचन्ति धीराः
यथा त्वमिन्द्रप्रतिमप्रभाव- स्ते चाप्यनन्ता नरदेव लोकाः। तथाऽद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि दायम्
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि। सर्वे प्रदाय भवते गन्तारो नरकं वयम्
यदर्होऽहं तद्यतध्वं सन्तः सत्याभिनन्दिनः। अहं तन्नाभिजानामि यत्कृतं न मया पुरा
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः। यानारुह्य नरो लोकानभिवाञ्छति शाश्वतान्
युष्मानेते वहिष्यन्ति रथाः पञ्च हिरण्मयाः। उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव
अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा। हयस्य यानि चाङ्गानि संनिकृत्य यथाक्रमम्
होताऽध्वर्युरथोद्गाता ब्रह्मणा सह भारत। अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः
धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि। विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः
एतस्मिन्नन्तरे चैव माधवी सा तपोधना। मृगचर्मपरीताङ्गी परिधाय मृगत्वचम्
मृगैः परिचरन्ती सा मृगाहारविचेष्टिता। यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता
आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा। यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान्
पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी। असंस्पृशन्तं वसुधां ययातिं नाहुषं यदा
दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा। तदा वसुमनापृच्छन्मातरं वै तपस्विनीम्
भवत्या यत्कृतमिदं वन्दनं पादयोरिह। कोयं देवोपमो राजा याऽभिवन्दसि मे वद
शृणुध्वं सहिताः पुत्रा नाहुषोयं पिता मम। ययातिर्मम पुत्राणां मातामह इति स्मृतः
पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः। केन वा कारणेनैवमिह प्राप्तो महायशाः
तस्यास्तद्वचनं श्रुत्वा स्वर्गाद्भ्रष्टेति चाब्रवीत्। सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना
माधवी पितरं प्राह दौहित्रपरिवारितम्। तपसा निर्जिताँल्लोकान्प्रतिगृह्णीष्व मामकान्
पुत्राणामिव पौत्राणां धर्मादधिगतं धनम्। स्वार्थणेव वदन्तीह ऋषयो धर्मपाठकाः। तस्माद्दानेन तपसा चास्माकं दिवमाव्रज
यदि धर्मफलं ह्येतच्छोभनं भविता तव। दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः
तस्मात्पवित्रं दौहित्रमद्यप्रभृति पैतृके। त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम्। भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः