न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे। क्षीणानुभयतः शूरान्राथिनो रथिभिर्हतान्
समवेताः पृथिव्यां हि राजानो राजसत्तम । अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः
त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः। त्वयि प्रकृतिमापन्ने शेषः स्यात्कुरुनन्दन
शुक्ला वादन्या ह्रीमन्त आर्याः पुण्याभिजातयः ।। अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात्
शिवेनेमे भूमिपालाः समागम्य परस्परम्। सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम्
सुवाससः स्रग्विणश्च सत्कृता भरतर्षभ । अमर्षं च निराकृत्य वैराणि च परन्तप
हार्दं यत्पाण्डवेष्वासीत्प्राप्तोऽस्मिन्नायुषः क्षये । तदेव ते भवत्वद्य सन्धत्स्व भरतर्षभ
बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः । तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ
भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः। मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ
आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च। भवतः शासनाद्दुःखसमुभूतं सहानुगैः
द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः। त्रयोदशं तथाऽज्ञातैः सजने परिवत्सरम्
स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः । नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः
तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ । नित्यं संक्लेशिता राजन्स्वराज्यांशं लभेमहि
त्वं धर्ममर्थं संजानन्सम्यङ्वस्त्रातुमर्हसि ।। गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे
स भवान्मातृपितृव्रदस्मासु प्रतिपद्यताम् ।। गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत
वर्तामहे त्वयि च तां त्वं च वर्तस्व नस्तथा ।। पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः
संस्थापय पथिप्वस्मांस्तिष्ठ धर्मे सुवर्त्मनि ।। आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ
धर्मज्ञेषु सभासत्सु नेह युक्तमसांप्रतम् ।। यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ।। विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते
नचास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ।। धर्म एतानारुजति यथा नद्यनुकूलजान्
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते । ते सत्यमाहुर्धर्म्यं च न्याय्यं च भरतर्षभ
शक्यं किमन्यद्वक्तुं ते दानादन्यञ्जनेश्वर । ब्रुवन्तु ते महीपालाः सभायां ये समासते
धर्मार्थौ संप्रधार्यैव यदि सत्यं ब्रवीम्यहम् । प्रमुञ्चोमान्मृत्युपाशात्क्षत्रियान्पुरुषर्षभ
प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः । पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् । ततः सपुत्रः सिद्धार्थो भुङ्क्ष भोगान्परन्तप
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा। सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप
दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः । इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः
स तत्र विवसन्सर्वान्वशमानीय पार्थिवान्। त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता। राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः
स तामवस्थां संप्राप्य कृष्णां प्रेक्ष्य सभां गताम्। क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः
अहं तु तव तेषां च श्रेय इच्छामि भारत । धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः