सेयमापन्महाघोरा कुरुष्वेव समुत्थिता । उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत । न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ
त्वय्यधीनः शमो राजन्मयि चैव विशांपते । पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान्
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः । हितं बलवदप्येषां तिष्ठतां तव शासने
तव चैव हितं राजन्पाण्डवानामथो हितम् । शमे प्रयतमानस्य तव शासनकाङ्क्षिणः
स्वयं निष्फलमालक्ष्य संविधत्स्व विशांपते । सहायभूता भरतास्तवैव स्युर्जनेश्वर
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः । न हि शक्यास्तथाभूता यत्नादपि नराधिप
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः । इन्द्रोपि देवैः सहितः प्रसहेत कुतो नृपाः
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः । अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः
सैन्धवश्च कलिङ्गश्च काम्भोजश्च सुदक्षिणः । युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा
सात्यकिश्च महातेजा युयुत्सुश्च महारथः । को नु तान्विपरीतात्मा युद्ध्येत भरतर्षभ
लोकस्येश्वरतां भूयः शत्रुभिश्चाप्यधृष्यताम्। प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः
तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते । श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप
स त्वं पुत्रैश्च पौत्रैश्च पितृभिर्भ्रातृभिस्तथा । सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुं
एतानेव पुरोधाय यत्कृत्य च यथा पुरा। अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते
एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत । अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः
तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप । यदि संपत्स्यसे पुत्रैः सहामात्यैर्नराधिप
संयुगे वै महाराज दृश्यते सुमहान्क्षयः। क्षये चोभयतो राजन्कं धर्ममनुपश्यसि
पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वापि महाबलैः । यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ
शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः। पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात्
न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे। क्षीणानुभयतः शूरान्राथिनो रथिभिर्हतान्
समवेताः पृथिव्यां हि राजानो राजसत्तम । अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः
त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः। त्वयि प्रकृतिमापन्ने शेषः स्यात्कुरुनन्दन
शुक्ला वादन्या ह्रीमन्त आर्याः पुण्याभिजातयः ।। अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात्
शिवेनेमे भूमिपालाः समागम्य परस्परम्। सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम्
सुवाससः स्रग्विणश्च सत्कृता भरतर्षभ । अमर्षं च निराकृत्य वैराणि च परन्तप
हार्दं यत्पाण्डवेष्वासीत्प्राप्तोऽस्मिन्नायुषः क्षये । तदेव ते भवत्वद्य सन्धत्स्व भरतर्षभ
बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः । तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ
भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः। मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ
आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च। भवतः शासनाद्दुःखसमुभूतं सहानुगैः