ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् । त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत्
आसनान्यथ मृष्टानि महान्ति विपुलानि च ।। मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः
तेषु तत्रोपविष्टेषु गृहीतार्घ्येषु भारत ।। निषसादासने कृष्णो राजानश्च यथासनम्
दुःशासनः सात्यकये ददावासनमुत्तमम् ।। विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे
अविदूरे तु कृष्णस्य कर्णदुर्योधनावुभौ ।। एकासने महात्मानौ निषीदतुरमर्षणौ
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः ।। निषसादासने राजा सहपुत्रो विशांपते
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे ।। संस्पृशन्नासनं शौरेर्महामतिरुपाविशत्
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्व एव ते ।। अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम्
अतसीपुष्पसङ्काशः पीतवासा जनार्दनः ।। व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः
ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् । न तत्र कश्चित्किंचिद्वा व्याजहार पुमान्क्वचित्
तेष्वासीनेषु सर्वेषु तूष्णींभूतेषु राजसु। वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः
जीमूत इव धर्मान्ते सर्वां संश्रावयन्सभाम् । धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः
कुरूणां पाण्डवानां च शमः स्यादिति भारत । अप्रणशेन वीराणामेतद्याचितुमागतः
राजन्नान्यत्प्रवक्तव्यं तव नैःश्रेयसं वचः । विदितं ह्येव ते सर्वं वेदितव्यमरिन्दम
इदं ह्यद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव । श्रुतवृत्तोपसंपन्नं सर्वैः समुदितं गुणैः
कृपानुकम्पा कारुण्यमानृशंस्यं च भारत । तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते
तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति। त्वन्निमित्तं विशेषेण नेह युक्तमसांप्रतम्
त्वं हि धारयिता श्रेष्ठः कुरूणां कुरुसत्तम। मिथ्याप्रचरतां तात बाह्येष्वाभ्यन्तरेषु च
ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः। धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत्
अशिष्टा गतमर्यादा लोभेन हृतचेतसः। स्वेषु बन्धुषु मुख्येषु तद्वेत्थ पुरुषर्षभ
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता । उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत । न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ
त्वय्यधीनः शमो राजन्मयि चैव विशांपते । पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान्
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः । हितं बलवदप्येषां तिष्ठतां तव शासने
तव चैव हितं राजन्पाण्डवानामथो हितम् । शमे प्रयतमानस्य तव शासनकाङ्क्षिणः
स्वयं निष्फलमालक्ष्य संविधत्स्व विशांपते । सहायभूता भरतास्तवैव स्युर्जनेश्वर
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः । न हि शक्यास्तथाभूता यत्नादपि नराधिप
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः । इन्द्रोपि देवैः सहितः प्रसहेत कुतो नृपाः
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः । अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः
सैन्धवश्च कलिङ्गश्च काम्भोजश्च सुदक्षिणः । युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा