पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् । सबालवृद्धं सस्त्रीकं रथ्यागतमरिन्दम
वेदिकामाश्रिताभिश्च समाक्रान्तान्यनेकशः । प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत
स पूज्यमानः कुरुभिः संश्रृण्वन्मधुराः कथाः । यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ
ततः सभां समासाद्य केशवस्यानुयायिनः। सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन्
ततः सा समितिः सर्वा राज्ञाममिततेजसाम्। संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया
ततोऽभ्याशंगते कृष्णे समहृष्यन्नराधिपाः। श्रुत्वां तं रथनिर्घोषं पर्जन्यनिनदोपमम्
आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् । अवतीर्य रथाच्छौरिः कैलासशिखरोपमात्
नवमेघप्रतीकाशां ज्वलन्तीमिव तेजसा । महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः
पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः। ज्येतींष्यादित्यवद्राजन्कुरून्प्राच्छादयच्छ्रिया
अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ । कृष्णयः कृतवर्मा चाप्यासन्कृष्णस्य पृष्ठतः
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः । आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम्
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वर। सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे । तानि राजसहस्राणि समुत्तस्थुः समन्ततः
आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् । कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात्
स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः । अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः
तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम्। राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम्
तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः। अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः
ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन् ।। अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप ।। निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् ।। पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम्
ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् । त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत्
आसनान्यथ मृष्टानि महान्ति विपुलानि च ।। मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः
तेषु तत्रोपविष्टेषु गृहीतार्घ्येषु भारत ।। निषसादासने कृष्णो राजानश्च यथासनम्
दुःशासनः सात्यकये ददावासनमुत्तमम् ।। विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे
अविदूरे तु कृष्णस्य कर्णदुर्योधनावुभौ ।। एकासने महात्मानौ निषीदतुरमर्षणौ
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः ।। निषसादासने राजा सहपुत्रो विशांपते
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे ।। संस्पृशन्नासनं शौरेर्महामतिरुपाविशत्
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्व एव ते ।। अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम्
अतसीपुष्पसङ्काशः पीतवासा जनार्दनः ।। व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः
ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् । न तत्र कश्चित्किंचिद्वा व्याजहार पुमान्क्वचित्