कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः । आतिष्ठत रथं शौरिः सर्वयादवनन्दनः
अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित्। सर्वप्राणभृतां श्रेष्ठं सर्वबुद्धिमतां वरम्
ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः । द्वितीयेन रथेनैनमन्वयातां परन्तपम्
सात्यकिः कृतवर्मा च वृष्णीनां चापरे रथाः । पृष्ठतोऽनुययुः कृष्णं गजैरश्वै रथैरपि
तेषां हेमपरिष्कारैर्युक्ताः परमवाजिभिः । गच्छतां घोषिणश्चित्ररथा राजन्विरेजिरे
संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् । राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन्
ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः। शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च
प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः। परिवार्य रथं शौरेरगच्छन्त परन्तपाः
ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः । असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः
गजाः पञ्चशतास्तत्र रथाश्चासन्सहस्रशः। प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम्
पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् । सबालवृद्धं सस्त्रीकं रथ्यागतमरिन्दम
वेदिकामाश्रिताभिश्च समाक्रान्तान्यनेकशः । प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत
स पूज्यमानः कुरुभिः संश्रृण्वन्मधुराः कथाः । यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ
ततः सभां समासाद्य केशवस्यानुयायिनः। सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन्
ततः सा समितिः सर्वा राज्ञाममिततेजसाम्। संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया
ततोऽभ्याशंगते कृष्णे समहृष्यन्नराधिपाः। श्रुत्वां तं रथनिर्घोषं पर्जन्यनिनदोपमम्
आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् । अवतीर्य रथाच्छौरिः कैलासशिखरोपमात्
नवमेघप्रतीकाशां ज्वलन्तीमिव तेजसा । महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः
पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः। ज्येतींष्यादित्यवद्राजन्कुरून्प्राच्छादयच्छ्रिया
अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ । कृष्णयः कृतवर्मा चाप्यासन्कृष्णस्य पृष्ठतः
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः । आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम्
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वर। सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे । तानि राजसहस्राणि समुत्तस्थुः समन्ततः
आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् । कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात्
स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः । अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः
तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम्। राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम्
तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः। अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः
ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन् ।। अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप ।। निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् ।। पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम्