अहापयन्पाण्डवार्थं यथाव- च्छमं कुरूणां यदि चाचरेयम्। पुण्यं च मे स्याच्चरितं महात्म- न्मुच्येरंश्च कुरवो मृत्युपाशात्
अपि वाचं भाषमाणस्य काव्यां धर्मरामामर्थवतीमहिंस्राम्। अवेक्षेरन्धार्तराष्ट्राः शमार्थं मां च प्राप्तं कुरवः पूजयेयुः
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः। क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा। शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः
तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा। शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी
धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः। शृण्वतो विविधा वाचो विदुरस्य महात्मनः
कथाभिरनुरूपाभी रक्तस्यामिततेजसः । अकामस्यैव कृष्णस्य सा व्यतीयाय शर्वरी
ततस्तु स्वरसंपन्ना बहवः सूतमागधाः ।। शङ्खदुन्दुमिनिर्घोषैः केशवं प्रत्यबोधयन्
तत उत्थाय दाशार्हऋषभः सर्वसात्वताम् । सर्वमावश्यकं चक्रे प्रातः कार्यं जनार्दनः
कृतोदकानुजप्यः स हुताग्निः समलङ्कृतः। ततश्चादित्यमुद्यन्तमुपातिष्ठत माधवः
अथ दुर्योधनः कृष्मं शकुनिश्चापि सौबलः। सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम्
आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम्। कुरूश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान्
त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः । तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना
ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः। ददौ हिरण्यं वासांसि गाश्चाश्चांश्च परन्तपः
विसृष्टवन्तं रत्नानि दाशार्हमपराजितम्। तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा
तस्मै रथवरो युक्तः शुशुभे लोकविश्रुतः । वाजिभिः शैब्यसुग्रीवमेघपुष्पबलाहकैः
शैब्यस्तु शुकपत्राभः सुग्रीवः किंशुकप्रभः । मेघपुष्पो मेघवर्णः पाण्डरस्तु बलाहकः
दक्षिणं चावहच्छैब्यः सुग्रीवः सव्यतोऽवहत्। पृष्ठवाहौ रथस्यास्तां मेघपुष्पबलाहकौ
विश्वकर्मकृताऽऽपीडा रत्नजालविभूषिता । आश्रिता वै रथे तस्मिन्ध्वजयष्टिरशोभत
वैनतेयः स्थितस्तस्यां प्रभाकरमिव स्पृशन्। तस्य सत्ववतः केतौ भुजगारिरशोभत
तस्य कीर्तिमतस्तेन भास्वरेण विराजता । शुशुभे स्यन्दनश्रेष्ठः पतगेन्द्रेण केतुना
रश्मिजालैः पताकाभिः सौवर्णेन च केतुना । बभूव स रथश्रेष्ठः कालसूर्य इवोदितः
पक्षिध्वजवितानैश्च रुक्मजालकृताङ्गणैः । दण्डमार्गविभागैश्च सुकृतैर्विश्वकर्मणा
प्रवालमणिशोभैश्च मुक्तावैडूर्यशोभनैः । किङ्किणीशतसङ्घैश्च वालजालकृतान्तरैः
कार्तस्वरमयीभिश्च पद्मिनीभिरलङ्कृतः। शुशुभे स्यन्दनश्रेष्ठस्तापनीयैश्च पादपैः
व्याघ्रसिंहवराहैश्च गोभिश्च मृगपक्षिभिः । ताराभिर्भास्करैश्चापि वारणैश्च हिरण्मयैः
वज्राङ्कुशविमानैश्च कूबरावृत्तसन्धिषु । समुच्छ्रितमहानाभिः स्तनयित्नुमहास्वनः
ततो रथेन शुभ्रेण महता किङ्किणीकिना । हयोत्तमयुजा शीघ्रमुपातिष्ठत दारुकः
तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः । महाभ्रघननिर्घोषं सर्वरत्नविभूषितम्
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः। कौस्तुभं मणिमाबध्य श्रिया परमया ज्वलन्