या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा। सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनां
विदुरस्य वचः श्रुत्वा प्रश्रितं पुरुषोत्तमः । इदं होवाच वचनं मधुरं मधुसूदनः
यथा व्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः। सथा वाच्यस्त्वद्विधेन भवता मद्विधः सुहृत्
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते। तथा वचनमुक्तोऽस्ति त्वयैतत्पितृमातृवत्
सत्यं प्राप्तं च युक्तं वाऽप्येवमेव यथाऽऽत्थ माम्। श्रृणुष्वागमने हेतुं विदुरावहितो मम
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम्। सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान्
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् । यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम्
धर्मकार्यं यतञ्शक्त्या नो चेत्प्राप्नोति मानवः । प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः
मनसा चिन्तयन्पापं कर्मणा नातिरोचयन्। न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया। कुरूणां सृञ्जयानां च सङ्ग्राने विनशिष्यताम्
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता । कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः
व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते । अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः
आकेशग्रहणान्मित्रमकार्यात्संनिवर्तयन्। अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम्
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम्। धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च । पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि। हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते । सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः
न मां ब्रूयुरधर्मिष्ठा मूढा ह्यसुहृदस्तथा । शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान्
उभयोः साधयन्नर्थमहामागत इत्युत । तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम्
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम्। न चेदादास्यते बालो दिष्टस्य वशमेष्यति
अहापयन्पाण्डवार्थं यथाव- च्छमं कुरूणां यदि चाचरेयम्। पुण्यं च मे स्याच्चरितं महात्म- न्मुच्येरंश्च कुरवो मृत्युपाशात्
अपि वाचं भाषमाणस्य काव्यां धर्मरामामर्थवतीमहिंस्राम्। अवेक्षेरन्धार्तराष्ट्राः शमार्थं मां च प्राप्तं कुरवः पूजयेयुः
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः। क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा। शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः
तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा। शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी
धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः। शृण्वतो विविधा वाचो विदुरस्य महात्मनः
कथाभिरनुरूपाभी रक्तस्यामिततेजसः । अकामस्यैव कृष्णस्य सा व्यतीयाय शर्वरी
ततस्तु स्वरसंपन्ना बहवः सूतमागधाः ।। शङ्खदुन्दुमिनिर्घोषैः केशवं प्रत्यबोधयन्
तत उत्थाय दाशार्हऋषभः सर्वसात्वताम् । सर्वमावश्यकं चक्रे प्रातः कार्यं जनार्दनः
कृतोदकानुजप्यः स हुताग्निः समलङ्कृतः। ततश्चादित्यमुद्यन्तमुपातिष्ठत माधवः