एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् । धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव । शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः
न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् । इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम्
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन । न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः
अविजानत्सु मूढेषु निर्मर्यादेषु माधव । तत्त्वं वाक्यं ब्रुवन्निन्द्यश्चण्डालेषु द्विजो यथा
सोऽयं बलस्थो मूढश्चन करिष्यति ते वचः । तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव
तेषां समुपविष्टानां सर्वेषां पापचेतसाम् । तव मध्यावतरणं मम कृष्ण न रोचते
दुर्बुद्धीनामशिष्टानां बहूनां दुष्टचेतसाम् । प्रतीपं वचनं मध्ये तव कृष्ण न रोचते
अनुपासितवृद्धत्वाच्छ्रियो दर्पाच्च मोहितः । वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति
बलं बलवदप्यस्य यदि वक्ष्यसि माधव । त्वय्यस्य महती शङ्का न करिष्यति ते वचः
नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः । इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन
तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु । समर्थमपि ते वाक्यमसमर्थं भविष्यति
मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो रथाश्वयुक्तस्य बलस्य मूढः। दुर्योधनो मन्यते बीतभीतिः कृत्स्ना मयेयं पृथिवी जितेति
आशंसते वै धृतराष्ट्रस्य पुत्रो महाराज्यमसपत्नं पृथिव्याम्। तस्मिञ्शमः केवलो नोपलभ्यो बद्धं सन्तं मन्यते लब्धमर्थम्
पर्यस्तेयं पृथिवी कालपक्वा दुर्योधनार्थे पाण्डवान्योद्धुकामाः । समागताः सर्वयोधाः पृथिव्यां राजानश्च क्षितिपालैः समेताः
सर्वे चैते कृतवैराः पुरस्ता- त्त्वया राजानो हृतसाराश्च कृष्ण । तवोद्वेगात्संश्रिता धार्तराष्ट्रा- न्सुसंहताः सह कर्णेन वीराः
न तन्मतं मम दाशार्हवीर
तेषां समुपविष्टानां बहूनां दुष्टचेतसाम्। कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन
सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः । प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन्
या मे प्रीतिः पाण्डवेषु भूयःक सा त्वयि माधव । प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम्
या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा। सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनां
विदुरस्य वचः श्रुत्वा प्रश्रितं पुरुषोत्तमः । इदं होवाच वचनं मधुरं मधुसूदनः
यथा व्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः। सथा वाच्यस्त्वद्विधेन भवता मद्विधः सुहृत्
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते। तथा वचनमुक्तोऽस्ति त्वयैतत्पितृमातृवत्
सत्यं प्राप्तं च युक्तं वाऽप्येवमेव यथाऽऽत्थ माम्। श्रृणुष्वागमने हेतुं विदुरावहितो मम
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम्। सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान्
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् । यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम्
धर्मकार्यं यतञ्शक्त्या नो चेत्प्राप्नोति मानवः । प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः
मनसा चिन्तयन्पापं कर्मणा नातिरोचयन्। न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया। कुरूणां सृञ्जयानां च सङ्ग्राने विनशिष्यताम्