निर्याय च महाबाहुर्वासुदेवो महामनाः । निवेशाय ययौ वेश्य विदुरस्य महात्मनः
तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः । कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम्
त ऊचुर्माधवं वीरं कुरवो मधुसूदनम् । निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम्
तानुवाच महातेजाः कौरवान्मधुसूदनः । सर्वे भवन्ते गच्छन्तु सर्वा मेऽपचितिः कृता
यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम्। अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान्
ततः क्षत्राऽन्नपानानि शुचीनि गुणवन्ति च। उपाहरदनेकानि केशवाय महात्मने
तैतर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः । वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि
भुक्तवत्सु द्विजाग्र्येषु निषण्णेषु वरासने । शुचिः सुप्रयतो भून्वा विदुरोऽन्नमुपारत्
श्रद्धया परया युक्त इदं वचनमब्रवीत्। संवृतैस्तुष्य गोविन्द एतन्नः धनम्। अन्यथा हि विशेषेण कस्त्वामर्चितुमर्हति
ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः। विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च
तं भुक्तवन्तं विविधाः सुशब्दाः सूतमागधाः । अभितुष्टुवुरासीनं दाशार्हमपराजितम्
तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत्। नेदं सम्यग्व्यवसितं केशवागमनं तव
अर्थधर्मातिगो मन्दः संरम्भी च जनार्दन । मानघ्नो मानकामश्च वृद्धानां शासनातिगः
धर्मशास्त्रातिगो मूढो दुरात्मा प्रग्रहं गतः । अनेयः श्रेयसां मन्दो धार्तराष्ट्रो जनार्दन
कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्किता । अकर्ता चाकृतज्ञश्च त्यक्तधर्मा प्रियानृतः
मूढश्वाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः। कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः
एतैश्चान्यैश्च बहुभिर्दोषैरेव समन्वितः । त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे। भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन । भीष्मद्रोणमुखान्पार्था न शक्ताः प्रतिवीक्षितुम्
सेनासमुदयं कृत्वा पार्थिवं मधुसूदन। कृतार्थं मन्यते बाल आत्मानमविचक्षणाः
एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् । धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव । शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः
न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् । इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम्
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन । न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः
अविजानत्सु मूढेषु निर्मर्यादेषु माधव । तत्त्वं वाक्यं ब्रुवन्निन्द्यश्चण्डालेषु द्विजो यथा
सोऽयं बलस्थो मूढश्चन करिष्यति ते वचः । तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव
तेषां समुपविष्टानां सर्वेषां पापचेतसाम् । तव मध्यावतरणं मम कृष्ण न रोचते
दुर्बुद्धीनामशिष्टानां बहूनां दुष्टचेतसाम् । प्रतीपं वचनं मध्ये तव कृष्ण न रोचते
अनुपासितवृद्धत्वाच्छ्रियो दर्पाच्च मोहितः । वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति
बलं बलवदप्यस्य यदि वक्ष्यसि माधव । त्वय्यस्य महती शङ्का न करिष्यति ते वचः