दुर्योधनसमीपे तानासनस्थान्ददर्श सः। अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः
उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् । समेत्य धार्तराष्ट्रेण महामात्येन केशवः
राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः । तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम्
विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः । तस्मिन्गां मधुपर्कं चाप्युदकं च जनार्दने
निवेदयामास तदा गृहान्राज्यं च कौरवः । ` आसनं सर्वतोभद्रं सर्वरत्नविभूषितम्
कृष्णार्थमेवं संसिद्धं धार्तराष्ट्रस्य शासनात्।' तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम्
उपासाञ्चक्रिरे सर्वे कुरवो राजभिः सह। ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम्
न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः । ततो दुर्योधनः कृष्णमब्रवीत्कुरुसंसदि
मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः । कस्मादन्नानि पापानि वासांसि शयनानि च
त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन । उभयोश्च ददत्साह्यमुभयोश्च हिते रतः
संबन्धी दयितश्चासि धृतराष्ट्रस्य माधव । त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः । तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः । उद्यन्मेघस्वनःक काले प्रगृह्य विपुलं भुजम्
अलघूकृतमग्रस्तमनिरस्तमसंकुलम् । राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम्
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव ह। कृतर्थं मां सहामात्यं समर्चिष्यसि भारत
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् । न युक्तं भवताऽस्मासु प्रतिपत्तुमसांप्तम्
कृतार्थं वाऽकृतार्थं वा त्वां वयं मधुसूदन। यतामहे पूजयितुं दाशार्ह न च शक्नुमः
न च तत्कारणं विद्मो यस्मान्नो मधुसूदन । पूजां कृतां प्रीयमाणो नामंस्थाः पुरुषोत्तम
वैरं नो नास्ति भवता गोविन्द न च विग्रहः । स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः। अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् । न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथंचन
संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः । न च संप्रीयते राजन्न चैवापद्गता वयम्
द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् । पाण्डवान्द्विषसे राजन्मम प्राणा हि पाण्डवाः
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् । प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते। धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु समामनु । ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सति। गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम्
यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते । सोजितात्माऽजितक्रोधो न चिरं तिष्ठति श्रिया
अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि। प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति
सर्वमेतन्न भोक्तव्यमन्नं दुष्टाभिसंहितम्। क्षुत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः
एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् । निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात्