दुःशासतश्च कर्णश्च परुषाण्यभ्यभाषताम्। दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम्
पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् । न हि वैरं समासाद्य प्रशाम्यति वृकोदरः
सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति। यावदन्तं न नयति शात्रवाञ्चत्रुकर्शनः
न दुःखं राज्यहरणं न च द्यूते पराजयः । प्रव्राजनं तु पुत्राणां न मे तद्दुःखकारणम्
यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता। अशृणोत्परुषा वाचः किं नु दुःखतरं ततः
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा। नाभ्यगच्छत्तदा नाथं कृष्णा नाथवती सती
यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन । रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः
साऽहमेवंविधं दुःखं सहेयं पुरुषोत्तम । भीमे जीवति दुर्धर्षे विजये चापलायिनि
तत आश्वासयामास पुत्राधिभिरभिप्लुताम्। पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम्
का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः । शूरस्य राज्ञो दुहिता आजमीढकुलं गता
महाकुलीना भवती ह्रदाद्ध्रदमिवागता। ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता
वीरसूर्वीरपत्नी त्वं सर्वैः समुदिता गुणैः । मुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति
निद्रातन्द्रे क्रोधहर्षौ क्षुत्पिपासे हिमातपौ। एतानि पार्था निर्जित्य नित्यं वीरसुखे रताः
त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः । न तु स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः
अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः । उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान्
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः
अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया । आत्मानं ते कुशलिनं निवेद्याहुरनामयम्
अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् । ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान्
एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् । पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः
यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन। यथायथा त्वं मन्येथाः कुर्याः कृष्ण तथातथा
अविलोपेन धर्मस्य अनिकृत्या परन्तप। प्रभावज्ञाऽस्मि ते कृष्ण सत्यस्याभिजनस्य च
व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा। त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत्
त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम्। यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति
कुरूणां पाण्डवानां च लोकानां चापराजित । सर्वस्यैतस्य वार्ष्णेय गतिस्त्वमसि माधव। प्रभावो बुद्धिवीर्यं च तादृशं तव केशव
तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम्। प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति
पृथामामन्त्र्य गोविन्दः कृत्वा चाभिप्रदक्षिणम् । दुर्योधनगृहं शौरिरभ्यगच्छदरिन्दमः
लक्ष्म्या परमया युक्तं पुरन्दरगृहोपमम् । विचित्रैरासनैर्युक्तं प्रविवेश जनार्दनः
तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः । ततोऽभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम्
श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः । तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम्
धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने । दुःशासनं च कर्णं च शकुनिं चापि सौबलम्