नैव शक्याः पराजेतुं सर्वं ह्येषां तथाविधम् । पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम्
येनाहं कुन्तिभोजाय धनं वृत्तैरिवार्पिता । बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तिकां
अदात्तु कुन्तिभोजाय सखा सख्ये महात्मने । साऽहं पित्रा च निकृता श्वशुरैश्च परन्तप। अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम
यन्मां वागब्रवीन्नक्तं सूतके सव्यसाचिनः । पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्
हत्वा कुरून्महाजन्ये राज्यं प्राप्य धनञ्जयः । भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति
नाहं तामभ्यसूयामि नमो धर्माय वेधसे । कृष्णाय महते नित्यं धर्मो धारयति प्रजाः
धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषत। त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि
न मां माधव वैधव्यं नार्थनाशो न वैरिता । तथा शोकाय दहति यथा पुत्रैर्विना भवः
याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम्। धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे। इतश्चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम्
धनञ्जयं च गोविन्द यमौ तं च वृकोदरम्। जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः
अर्थतस्ते मम मृतास्तेषां चाहं जनार्दना । ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम्
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः । पराश्रया वासुदेव या जीवति घिगस्तु ताम्
वृत्तेः कार्पण्यलब्धाया अप्रतिष्ठैव ज्यायसी। अथो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम्
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः। अस्मिंश्चेदागते काले मिथ्या चातिक्रमिष्यति
लोकसंभाविताः संतः सुनृशंसं करिष्यथ । नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः
काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम् । माद्रीपुत्रौ च व्यक्तव्यौ क्षत्रधर्मरतौ सदा
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि । विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम। गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्
अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर । विदितौ हि तवात्यन्तं क्रुद्धौ तौ तु यथान्तकौ
भीमार्जुनौ नयेतां हि देवानपि परां गतिम्। तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता
दुःशासतश्च कर्णश्च परुषाण्यभ्यभाषताम्। दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम्
पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् । न हि वैरं समासाद्य प्रशाम्यति वृकोदरः
सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति। यावदन्तं न नयति शात्रवाञ्चत्रुकर्शनः
न दुःखं राज्यहरणं न च द्यूते पराजयः । प्रव्राजनं तु पुत्राणां न मे तद्दुःखकारणम्
यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता। अशृणोत्परुषा वाचः किं नु दुःखतरं ततः
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा। नाभ्यगच्छत्तदा नाथं कृष्णा नाथवती सती
यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन । रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः
साऽहमेवंविधं दुःखं सहेयं पुरुषोत्तम । भीमे जीवति दुर्धर्षे विजये चापलायिनि
तत आश्वासयामास पुत्राधिभिरभिप्लुताम्। पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम्
का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः । शूरस्य राज्ञो दुहिता आजमीढकुलं गता