पक्ष्मसंपातजे काले नकुलेन विनाकृता । न लभामि धृतिं वीर साऽद्य जीवामि पश्य माम्
सर्वैः पुत्रैः प्रियतरा द्रौपदी मे जनार्दन । कुलीना रूपसंपन्ना सर्वैः समुदिता गुणैः
पुत्रलोकात्पतिलोकं वृण्वाना सत्यवादिनी। प्रियान्पुत्रान्परित्यज्य पाण्डवाननुरुध्यते
महाभिजनसंपन्ना सर्वकामैः सुपूजिता। ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत
पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः । उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी
चतुर्दशमिदं वर्षं यन्नापश्यमरिन्दम । पुत्रादिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम्
न नूनं कर्मभिः पुण्यैरश्रुते पुरुषः सुखम् । द्रौपदी चेत्तथावृत्ता नाश्रुते सुखमव्ययम्
न प्रियो मम कृष्णाया बीभत्सुर्न युधिष्ठिरः । भीमसेनो यमौ वापि यदपश्यं सभागताम्
न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम् । स्त्रीधर्मिणीं द्रौपदीं यच्छ्वशुराणां समीपगाम्
आनायितामनार्येण क्रोधलोभानुवर्तिना । सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम्
तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः । कृपश्च कसोमदत्तश्च निर्विष्णाः कुरवस्तथा
तस्यां संसदि सर्वेषां क्षत्तारं पूजयाम्यहम् । वृत्तेन हि भवत्यार्यो न धनेन न विद्यया
तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः। क्षत्तुःक शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति
सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम्। नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयम्
पूर्वैराचरितं यत्तत्कुराजभिररिन्दम । अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम्
तन्मां दहति यत्कृष्णा सभायां कुरुसन्निधौ । धार्तराष्ट्रैः परिक्लिष्टा यथा न कुशलं तथा
निर्वासनं च नगरात्प्रव्रज्या च परन्तप । नानाविधानां दुःखानामावासोऽस्मि जनार्दन
अज्ञातचर्या बालानामवरोधश्च माधव । न मे क्लेशतमं तत्स्यात्पुत्रैः सह परन्तप
दुर्योधनेन निकृता वर्षमद्य चतुर्दशम्। दुःखादपि सुखं नः स्याद्यदि पुण्यफलक्षयः
न मे विशेपो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः । तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् । अस्माद्विमुक्तं सङ्ग्रामात्पश्येयं पाण्डवैः सह
नैव शक्याः पराजेतुं सर्वं ह्येषां तथाविधम् । पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम्
येनाहं कुन्तिभोजाय धनं वृत्तैरिवार्पिता । बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तिकां
अदात्तु कुन्तिभोजाय सखा सख्ये महात्मने । साऽहं पित्रा च निकृता श्वशुरैश्च परन्तप। अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम
यन्मां वागब्रवीन्नक्तं सूतके सव्यसाचिनः । पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्
हत्वा कुरून्महाजन्ये राज्यं प्राप्य धनञ्जयः । भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति
नाहं तामभ्यसूयामि नमो धर्माय वेधसे । कृष्णाय महते नित्यं धर्मो धारयति प्रजाः
धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषत। त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि
न मां माधव वैधव्यं नार्थनाशो न वैरिता । तथा शोकाय दहति यथा पुत्रैर्विना भवः
याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम्। धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे। इतश्चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम्
धनञ्जयं च गोविन्द यमौ तं च वृकोदरम्। जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः