पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः । वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः
गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् । अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः
प्रासादाग्नेष्वबोध्यन्त राङ्खवाजिनशायिनः । क्रूरं च निनदं श्रुत्वा श्वापदानां महावने
न स्मोपयान्ति निद्रां ते नतदर्हा जनार्दन । भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः
स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ।। वन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम्
महावनेष्वबोध्यन्त श्वापदानां रुतेन च । ह्रीमात्सत्यधृतिर्दान्तो भूतानामनुकम्पिता
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते । अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च
भरतस्य दिलीपस्य शिबेरौशीनरस्य च। राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम्
शीलवृत्तोपसंपन्नोः धर्मज्ञः सत्यसङ्गरः । राजा सर्वगुणोपेतस्त्रौलोक्यस्यापि यो भवेत्
अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः । श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः । प्रियदर्शो दीर्घभुजः कथं कृष्ण युधिष्ठिरः
यः स नागायुतप्राणो वातरंहा महाबलः । सामर्षः पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः
कीचकस्य तु सज्ञातेर्यो हन्ता मधुसूदन । शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च
पराक्रमे शक्रसमो मातरिश्वसमो बले। महेश्वरसमः क्रोधे भीमः प्रहरतां वरः
क्रोधं बलममर्षं च यो निधाय परंतपः । जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने
तेजोराशिं महात्मानं वरिष्ठमभितौजसम् । भीमं प्रदर्शनेनापि भीमसेनं जनार्दन
तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः । आस्ते परिघबाहुः स मध्यमः पाण्डवो बली
अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा । द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः । इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः
तेजसाऽऽदित्यसदृशो महर्षिसदृशो दमे। क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः
आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन । आहृतं येन वीर्येण कुरूणां सर्वराजसु
यस्य बाहुबलं सर्वे पाण्डवाः पर्युपासते। स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः
यं गत्वाऽभिमुखः सङ्ख्ये न जीवन्तश्चिदाव्रजेत् । यो जेता सर्वभूतानामजेयो जिष्णुरच्युत
योऽपाश्रयः पाण्डवानां देवानामिव वासवः । स ते भ्राता सखा चैव कथमद्य धनञ्जयः
दयावान्सर्वभूतेषु ह्रीनिषेवो महास्रवित् । मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे
सहदेवो महेष्वासः शूरः समितिशोभनः । भ्रातृणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा
सदैव सहदेवस्य भ्रातरो मधुसूदन । वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः
ज्येष्ठोपचायिनं वीरं सहदेवं युधां पतिम्। शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः। भ्रातॄणां चैव सर्वेषां प्रियः प्राणो बहिश्चरः
चित्रयोधी च नकुलो महेष्वासो महाबलः । कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः
सुखोचितमदुःखार्हं सुकुमारं महारथम् । अपि जातु महाबाहो पश्येयं नकुलं पुनः