यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः। आतिष्ठेच्च मुनिर्मौनं स लोके सिद्धिमाप्नुयात्
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम्। असितं सितकर्माणं कस्तमर्हति नार्चितुम्
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः। स च लोकमिमं जित्वा लोकं विजयते परम्
यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः। अथ लोकमिमं जित्वा लोकं विजयते परम्
आस्येन तु यदाऽहारं गोवन्मृगयते मुनिः। अथास्य लोकः सर्वोऽयं सोऽमृतत्वाय कल्पते
सामान्यधर्मः सर्वेषां क्रोधो लोभो द्रुहाऽक्षमा। विहाय मत्सरं शाठ्यं दर्पं दम्भं च पैशुनम्। क्रोधं लोभं ममत्वं च यस्य नास्ति स धर्मवित्
नित्याशनो ब्रह्मचारी गृहस्थो वनगो मुनिः। नाधर्ममशनात्प्राप्येत्कथं ब्रूहीह पृच्छते
अष्टौ ग्रासा मुनेः प्रोक्ताः षोडशारण्यवासिनः। द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः
इत्येवं कारणैर्ज्ञेयमष्टकैतच्छुभाशुभम्
कतरस्त्वनयोः पूर्वं देवानामेति साम्यताम्। उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः। ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत्। तप्यते यदि तत्कृत्वा चरेत्सोऽन्यत्तपस्ततः
पापानां कर्मणां नित्यं बिभीयाद्यस्तु मानवः। सुखमप्याचरन्नित्यं सोऽत्यन्तं सुखमेधते
यद्वै नृशंसं तदसत्यमाहु- र्यः सेवते धर्ममनर्थबुद्धिः। अस्वोऽप्यनीशश्च तथैव राजं- स्तदार्जवं स समाधिस्तदार्यम्
केनासि हूतः प्रहितोऽसि राज- न्युवा स्रग्वी दर्शनीयः सुवर्चाः। कुतऋ आयातः कतरस्यां दिशि त्व- मुताहोस्वित्पार्थिवं स्थानमस्ति
त्वरन्ति मां लोकपा ब्राह्मणा ये
सतां सकाशे तु वृतः प्रपात- स्ते सङ्गता गुणवन्तश्च सर्वे। शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितलं नरेन्द्र
पृच्छामि त्वां मा प्रपत प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र। यद्यन्तरिक्षे यदि वा दिवि स्थिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पार्वतैश्च। तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति। यद्यन्तरिक्षे यदि वा दिवि श्रिता- स्तानाक्रम क्षिप्रमपेतमोहः
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य। यथा प्रदेयं सततं द्विजेभ्य- स्तथाऽददं पूर्वमहं नरेन्द्र
नाब्राह्मणः कृपणो जातु जीवे- द्या चाप्यस्याऽब्राह्मणी वीरपत्नी। सोऽहं नैवाकृतपूर्वं चरेयं विधित्समानः किमु तत्र साधुः
पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः। यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्तसप्ताप्यहानि। मधुच्युतो घृतपृक्ता विशोका- स्ते नान्तवन्तः प्रतिपालयन्ति
तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु। यद्यन्तरिक्षे यदि वा दिवि श्रिता- स्तानाक्रम क्षिप्रमपेतमोहः
न तुल्यतेजाः सुकृतं कामयेत योगक्षेमं पार्थिव पार्थिवः सन्। दैवादेशादापदं प्राप्य विद्वां- श्चरेन्नृशंसं न हि जातु राजा
धर्म्यं मार्गं यतमानो यशस्यं कुर्यान्नृपो धर्ममवेक्षमाणः। न मद्विधो धर्मबुद्धिः प्रजान- न्कुर्यादेवं कृपणं मां यथाऽत्थ
कुर्यादपूर्वं न कृतं यदन्यै- र्विधित्समानः किमु तत्र साधु। `धर्माधर्मौ सुविनिश्चित्य सम्य- क्कार्याकार्येष्वप्रमत्तश्चरेद्यः
स वै धीमान्सत्यसन्धः कृतात्मा राजा भवेल्लोकपालो महिम्ना। यदा भवेत्संशयो धर्मकार्ये कामार्थौ वा यत्र विन्दन्ति सम्यक्
कार्यं तत्र प्रथमं धर्मकार्यं यन्नो विरुध्यादर्थकामौ स धर्मः