तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् । शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः
अथ गां मधुपर्कं चाप्युदकं च जनार्दने । उपजह्नुर्यथान्यायं धृतराष्ट्रपुरोहिताः
कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् । आस्ते सांबन्धिकं कुर्वन्कुरुभिः परिवारितः
सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः । राजानं समनुज्ञाप्य निरक्रामदरिन्दमः
तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि । विदुरावसथं रम्यमुपातिष्ठत माधवः
विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् । अर्चयामास दाशार्हं सर्वकामैरुपस्थितम्
कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्। कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम्
प्रीयमाणस्य सुहृदो विदुरो बुद्धिसत्तमः । धर्मार्थनित्यस्य सतो गतरोवस्य धीमतः
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् । क्षत्तुराचष्ट दाशार्हः सर्वं प्रत्यक्षदर्शिवान्
अथोपगम्य विदुरमपराह्णे जनार्दनः। पितृष्वसारं स पृथामभ्यगच्छदरिन्दमः
सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम्। कण्ठे गृहीत्वा प्राक्रोशत्स्मरन्ती तनयान्पृथा
तेषां सत्ववतां मध्ये गोविन्दं सहचारिणम् । चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्मृथा
साऽब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् । बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता
एते बाल्यान्प्रभृत्येव गुरुशुश्रूषणे रताः । परस्परस्य सुहृदः संमताः समचेतसः। निकृत्या भ्रंशिता राज्याञ्जनार्हा निर्जनं गताः
विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः । त्यक्त्वा प्रियमुखे पार्था रुदतीमपहाय माम्
अहार्षुश्च वनं यान्तः समूलं हृदयं मम। अतदर्हा महात्मानः कथं केशव पाण्डवाः
ऊषुर्महावने तात सिंहव्याघ्रगजाकुले । बाला विहीनाः पित्रा ते मया सततलालिताः
अपश्यन्तश्च पितरौ कथमुषूर्महावने। शङ्खदुन्दुभिनिर्घोषैर्भृदङ्गैर्वेणुनिस्वनैः
पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव । ये स्म वारणशब्देन हयानां हेषितेन च
रथेनेमिनिनादैश्च व्यबोध्यन्त तदा गृहे । शङ्खभेरीनिनादेन वेणुवीणानुनादिना
पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः । वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः
गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् । अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः
प्रासादाग्नेष्वबोध्यन्त राङ्खवाजिनशायिनः । क्रूरं च निनदं श्रुत्वा श्वापदानां महावने
न स्मोपयान्ति निद्रां ते नतदर्हा जनार्दन । भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः
स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ।। वन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम्
महावनेष्वबोध्यन्त श्वापदानां रुतेन च । ह्रीमात्सत्यधृतिर्दान्तो भूतानामनुकम्पिता
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते । अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च
भरतस्य दिलीपस्य शिबेरौशीनरस्य च। राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम्
शीलवृत्तोपसंपन्नोः धर्मज्ञः सत्यसङ्गरः । राजा सर्वगुणोपेतस्त्रौलोक्यस्यापि यो भवेत्
अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः । श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः । प्रियदर्शो दीर्घभुजः कथं कृष्ण युधिष्ठिरः