पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः । नोत्सहेऽनर्थसंयुक्ताः श्रोतुं वाचः कथंचन
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् । उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः
प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम्। ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति
तं प्रयान्तं महाबाहुमनुज्ञाप्य महाबलम् । पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः
प्रददौ पुण्डरीकाक्षो रत्नानि च धनानि च। तान्प्रस्थाप्य महाबाहुरुपायात्कुरुसंसदम्
धार्तराष्ट्रास्तमायान्तं प्रत्युञ्जग्मुः स्वलङ्कृताः । दुर्योधनादृते सर्वे भीष्मद्रोणकृपादयः
पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः । यानैर्बहुविधैरन्ये पद्भिरेव तथाऽपरे
स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा । द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ
कृष्णसंमाननार्थं च नगरं समलङ्कृतम्। बभूव राजमार्गश्च बहुरत्नसमाचितः
न च कश्चिद्गृहे राजंस्तदाऽऽसीद्भरतर्षभ। न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया
राजमार्गे नरास्तस्मिन्संस्तुवन्त्यवनिं गताः । तस्मिन्काले महाराज हृषीकेशप्रवेशने
आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि । प्रचलन्तीव भारेण दृश्यन्तेस्म महीतले
तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः । प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते
स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः। पाण्डुरैः पुण्डरीकाक्षः प्रासादैरुपशोभितम्
तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः । वैचित्रवीर्यं राजानमभ्यगच्छदरिन्दमः
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नराधिपः । तहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः
कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः। आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम्
ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम्। सभीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा
तेषु धर्मानुपूर्वी तां प्रयुज्य मधुसूदनः । यथावयः समीयाय राजभिः सह माधवः
अथ द्रोणं सबाह्लीकं सपुत्रं च यशस्विनम्। कृपं च सोमदत्तं च समीयाय जनार्दनः
तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् । शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः
अथ गां मधुपर्कं चाप्युदकं च जनार्दने । उपजह्नुर्यथान्यायं धृतराष्ट्रपुरोहिताः
कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् । आस्ते सांबन्धिकं कुर्वन्कुरुभिः परिवारितः
सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः । राजानं समनुज्ञाप्य निरक्रामदरिन्दमः
तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि । विदुरावसथं रम्यमुपातिष्ठत माधवः
विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् । अर्चयामास दाशार्हं सर्वकामैरुपस्थितम्
कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्। कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम्
प्रीयमाणस्य सुहृदो विदुरो बुद्धिसत्तमः । धर्मार्थनित्यस्य सतो गतरोवस्य धीमतः
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् । क्षत्तुराचष्ट दाशार्हः सर्वं प्रत्यक्षदर्शिवान्
अथोपगम्य विदुरमपराह्णे जनार्दनः। पितृष्वसारं स पृथामभ्यगच्छदरिन्दमः