यत्तत्सत्कारसंयुक्तं देयं वसु जनार्दने । अनेकरूपं राजेन्द्र न तद्देयं कदाचन
देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः । मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति
अवमानश्च यत्र स्यात्क्षत्रियस्य विशांपते। न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः
स हि पूज्यतमो लोके कृष्णः पृथुललोचनः । त्रयाणामपि लोकानां विदितं मम सर्वथा
न तु तस्मै प्रदेयं स्यात्तथा कार्यगतिः प्रभो । विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात्
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः। वैचित्रवीर्यं राजानमिदं वचनमब्रवीत्
सत्कृतोऽसत्कृतो वाऽपि न क्रुध्येत जनार्दनः । `नावमंस्यत्यवज्ञातॄनवज्ञातोऽपि केशवः।' नालमेनमवज्ञातुं नावज्ञेयो हि केशवः
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् । सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया । वासुदेवेन तीर्थेन क्षिप्रं संशाभ्य पाण्डवैः
धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः। तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह
न पर्याप्तोस्मि यद्राजञ्श्रियं निष्केवलामहम् । तैः सहेमामुपाश्रीयां यावज्जीवं पितामह
इदं तु सुमहत्कार्यं श्रुणु मे यत्समर्थितम् । परायणं पाण्डवानां नियच्छामि जनार्दनम्
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा। पाण्डवाश्च विधेया मे स च प्रातरिहैप्यति
अत्रोपायान्यथा सम्यङ्न बुद्ध्येत जनार्दनः । न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे
तस्य तद्वचनं श्रुत्वा घोरं कृष्णेऽभिसंहितम्। धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत्
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः । मैवं वोचः प्रजापाल नैष धर्मः सनातनः
दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः। अपापः कौरवेयेषु स कथं बन्धमर्हति
परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः । वृणोत्यनर्थं नैवार्थं याच्यमानः सुहृज्जनैः
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्। वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः । तव पुत्रः सहामात्यः क्षणेन न भविष्यति
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः । नोत्सहेऽनर्थसंयुक्ताः श्रोतुं वाचः कथंचन
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् । उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः
प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम्। ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति
तं प्रयान्तं महाबाहुमनुज्ञाप्य महाबलम् । पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः
प्रददौ पुण्डरीकाक्षो रत्नानि च धनानि च। तान्प्रस्थाप्य महाबाहुरुपायात्कुरुसंसदम्
धार्तराष्ट्रास्तमायान्तं प्रत्युञ्जग्मुः स्वलङ्कृताः । दुर्योधनादृते सर्वे भीष्मद्रोणकृपादयः
पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः । यानैर्बहुविधैरन्ये पद्भिरेव तथाऽपरे
स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा । द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ
कृष्णसंमाननार्थं च नगरं समलङ्कृतम्। बभूव राजमार्गश्च बहुरत्नसमाचितः
न च कश्चिद्गृहे राजंस्तदाऽऽसीद्भरतर्षभ। न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया