पञ्च पञ्चैव लिप्स्यन्ति ग्रामकान्पाण्डवा नृप । न च दित्ससि तेभ्यस्तांस्तच्छमं न करिष्यसि
अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि । अनेन चाप्युपायेन पाण्डवेभ्यो विभेत्स्यसि
न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया। अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते
वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्। अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम्
अन्यत्कुम्भादपांपूर्णादन्यत्पादावसेचनात्। अन्यत्कुशलसंप्रश्नान्नैवेक्ष्यति जनार्दनः
यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः । तदस्मै क्रियतां राजन्मानार्होऽसौ जनार्दनः
आशंसमानः कल्याणं कुरूनभ्येति केशवः । येनैव राजन्नर्थेन तदेवास्मा उपाकुरु
शममिच्छति दाशार्हस्तव दुर्योधनस्य च। पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु
पिताऽसि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे। वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत्
यदाह विदुरः कृष्णे सर्वं तत्सत्यमच्युते। अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः
यत्तत्सत्कारसंयुक्तं देयं वसु जनार्दने । अनेकरूपं राजेन्द्र न तद्देयं कदाचन
देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः । मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति
अवमानश्च यत्र स्यात्क्षत्रियस्य विशांपते। न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः
स हि पूज्यतमो लोके कृष्णः पृथुललोचनः । त्रयाणामपि लोकानां विदितं मम सर्वथा
न तु तस्मै प्रदेयं स्यात्तथा कार्यगतिः प्रभो । विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात्
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः। वैचित्रवीर्यं राजानमिदं वचनमब्रवीत्
सत्कृतोऽसत्कृतो वाऽपि न क्रुध्येत जनार्दनः । `नावमंस्यत्यवज्ञातॄनवज्ञातोऽपि केशवः।' नालमेनमवज्ञातुं नावज्ञेयो हि केशवः
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् । सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया । वासुदेवेन तीर्थेन क्षिप्रं संशाभ्य पाण्डवैः
धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः। तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह
न पर्याप्तोस्मि यद्राजञ्श्रियं निष्केवलामहम् । तैः सहेमामुपाश्रीयां यावज्जीवं पितामह
इदं तु सुमहत्कार्यं श्रुणु मे यत्समर्थितम् । परायणं पाण्डवानां नियच्छामि जनार्दनम्
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा। पाण्डवाश्च विधेया मे स च प्रातरिहैप्यति
अत्रोपायान्यथा सम्यङ्न बुद्ध्येत जनार्दनः । न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे
तस्य तद्वचनं श्रुत्वा घोरं कृष्णेऽभिसंहितम्। धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत्
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः । मैवं वोचः प्रजापाल नैष धर्मः सनातनः
दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः। अपापः कौरवेयेषु स कथं बन्धमर्हति
परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः । वृणोत्यनर्थं नैवार्थं याच्यमानः सुहृज्जनैः
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्। वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः । तव पुत्रः सहामात्यः क्षणेन न भविष्यति