अजिनानां सहस्राणि चीनदेशोद्भवानि च। तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः
दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः । तमप्यस्मै प्रदास्यामि तमर्हति हि केशवः
एकेनाभिपतत्यह्ना योजनानि चतुर्दश । यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम्
यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते । ततोष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा
मम पुत्राश्च पौत्रश्च सर्वे दुर्योधनादृते। प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैः स्वलङ्कृताः
स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः। वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम्
नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् । द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः
सस्त्रीपुरुषबालं च नगरं मधुसूदनम् । उदीक्षतां महात्मानं भानुमन्तमिव प्रजाः
महाध्वजपताकाश्च क्रियन्तां सर्वतो दिशः। जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात्
दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् । तदद्य क्रियतां क्षिप्रं सुसंमृष्टमलङ्कृतम्
एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् । शिवं च रमणीयं च सर्वर्तु सुमहाधनम्
सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च। यद्यदर्हति वार्ष्णेयस्तत्तद्देयमसंशयम्
राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः। संभावितश्च लोकस्य संमतश्चासि भारत
यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः। शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि
लेखा शशिनिभाः सूर्ये महोर्मिरिव सागरे। धर्मस्त्वयि तथा राजन्निति व्यवसिताः प्रजाः
सदैव भावितो लोको गुणौघैस्तव पार्थिव । गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः
आर्जवं प्रतिपद्यस्व मा बाल्याद्ब्रहु नीनशः। राजन्पुत्रांश्च पौत्रांश्च सुहृदश्चैव सुप्रियान्
यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु । एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति
न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात्। एतद्दित्ससि कृष्णाय सत्येनात्मानमालभे
मायैषा सत्यमेवैतच्छद्मैतद्भूरिदक्षिणा । जानामि त्वन्मतं राजन्गूढं बाह्येन कर्मणा
पञ्च पञ्चैव लिप्स्यन्ति ग्रामकान्पाण्डवा नृप । न च दित्ससि तेभ्यस्तांस्तच्छमं न करिष्यसि
अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि । अनेन चाप्युपायेन पाण्डवेभ्यो विभेत्स्यसि
न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया। अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते
वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्। अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम्
अन्यत्कुम्भादपांपूर्णादन्यत्पादावसेचनात्। अन्यत्कुशलसंप्रश्नान्नैवेक्ष्यति जनार्दनः
यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः । तदस्मै क्रियतां राजन्मानार्होऽसौ जनार्दनः
आशंसमानः कल्याणं कुरूनभ्येति केशवः । येनैव राजन्नर्थेन तदेवास्मा उपाकुरु
शममिच्छति दाशार्हस्तव दुर्योधनस्य च। पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु
पिताऽसि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे। वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत्
यदाह विदुरः कृष्णे सर्वं तत्सत्यमच्युते। अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः