ताः सभाः केशवः सर्वा रत्नानि विविधानि च। असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत्
उपप्लाव्यादिह क्षत्तरुपायातो जनार्दनः। वृकस्थले निवसति स च प्रातरिहैष्यति
आहुकानामधिपतिः पुरोगः सर्वसात्वताम्। महामना महावीर्यो महासत्वो जनार्दनः
स्फीतस्य वृष्णिराष्ट्रस्य भर्ता गोप्ता च माधवः । त्रयाणामपि लोकानां भगवान्प्रपितामहः
वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते। आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः
तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने । प्रत्यक्षं तव धर्मज्ञ तां मे कथयतः श्रुणु
एकवर्णैः सुक्लृप्ताङ्गैर्बाह्लिजातैर्हयोत्तमैः। चतुर्यक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश
नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः। अष्टानुचरमेकैकमष्टौ दास्यामि कौरव
दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् । शतमस्मै प्रदास्यामि दासानामपि तावताम्
आविकं च सुखस्पर्शं पार्वतीयैरुपाहृतम् । तदप्यस्मै प्रदास्यामि सहस्त्राणि दाशाष्ट च
अजिनानां सहस्राणि चीनदेशोद्भवानि च। तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः
दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः । तमप्यस्मै प्रदास्यामि तमर्हति हि केशवः
एकेनाभिपतत्यह्ना योजनानि चतुर्दश । यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम्
यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते । ततोष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा
मम पुत्राश्च पौत्रश्च सर्वे दुर्योधनादृते। प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैः स्वलङ्कृताः
स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः। वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम्
नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् । द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः
सस्त्रीपुरुषबालं च नगरं मधुसूदनम् । उदीक्षतां महात्मानं भानुमन्तमिव प्रजाः
महाध्वजपताकाश्च क्रियन्तां सर्वतो दिशः। जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात्
दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् । तदद्य क्रियतां क्षिप्रं सुसंमृष्टमलङ्कृतम्
एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् । शिवं च रमणीयं च सर्वर्तु सुमहाधनम्
सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च। यद्यदर्हति वार्ष्णेयस्तत्तद्देयमसंशयम्
राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः। संभावितश्च लोकस्य संमतश्चासि भारत
यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः। शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि
लेखा शशिनिभाः सूर्ये महोर्मिरिव सागरे। धर्मस्त्वयि तथा राजन्निति व्यवसिताः प्रजाः
सदैव भावितो लोको गुणौघैस्तव पार्थिव । गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः
आर्जवं प्रतिपद्यस्व मा बाल्याद्ब्रहु नीनशः। राजन्पुत्रांश्च पौत्रांश्च सुहृदश्चैव सुप्रियान्
यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु । एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति
न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात्। एतद्दित्ससि कृष्णाय सत्येनात्मानमालभे
मायैषा सत्यमेवैतच्छद्मैतद्भूरिदक्षिणा । जानामि त्वन्मतं राजन्गूढं बाह्येन कर्मणा